Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 18 / Mantra 37

77 Mantra
18/37
Devata- सम्राड् राजा देवता Rishi- देवा ऋषयः Chhand- आर्षी पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
दे॒वस्य॑ त्वा सवि॒तुः प्रस॑वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। सर॑स्वत्यै वा॒चो य॒न्तुर्य॒न्त्रेणा॒ग्नेः साम्रा॑ज्येना॒भिषि॑ञ्चामि॥३७॥

दे॒वस्य॑। त्वा॒। स॒वि॒तुः। प्र॒स॒वे इति॑ प्र॒ऽस॒वे। अ॒श्विनोः॑। बा॒हुभ्या॒मिति॑ बा॒हुऽभ्या॑म्। पू॒ष्णः। हस्ता॑भ्याम्। सर॑स्वत्यै। वा॒चः। य॒न्तुः। य॒न्त्रेण॑ अग्नेः॑। साम्रा॑ज्ये॒नेति॒ साम्ऽरा॑ज्येन। अ॒भिषि॑ञ्चामीत्य॒भिऽसि॑ञ्चामि ॥३७ ॥

Mantra without Swara
देवस्य त्वा सवितुः प्रसवे श्विनोर्बाहुभ्याम्पूष्णो हस्ताभ्याम् । सरस्वत्यै वाचो यन्तुर्यन्त्रेणाग्नेः साम्राज्येनाभिषिञ्चामि ॥

देवस्य। त्वा। सवितुः। प्रसवे इति प्रऽसवे। अश्विनोः। बाहुभ्यामिति बाहुऽभ्याम्। पूष्णः। हस्ताभ्याम्। सरस्वत्यै। वाचः। यन्तुः। यन्त्रेण अग्नेः। साम्राज्येनेति साम्ऽराज्येन। अभिषिञ्चामीत्यभिऽसिञ्चामि॥३७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(देवस्य) स्वप्रकाशस्येश्वरस्य (त्वा) त्वाम् (सवितुः) सकलैश्वर्यप्रापकस्य (प्रसवे) प्रसवे जगति (अश्विनोः) सूर्याचन्द्रमसोः प्रतापशीतलत्वाभ्यामिव (बाहुभ्याम्) भुजाभ्याम् (पूष्णः) प्राणस्य धारणाकर्षणाभ्यामिव (हस्ताभ्याम्) कराभ्याम् (सरस्वत्यै) सरो विज्ञानं विद्यते यस्यास्तस्याः। अत्र षष्ठ्यर्ये चतुर्थी (वाचः) वाण्याः (यन्तुः) नियन्तुः (यन्त्रेण) कलाकौशलतयोत्पादितेन (अग्नेः) विद्युदादेः (साम्राज्येन) यः भूमेर्मध्ये सम्यक् राजते स सम्राट् तस्य भावेन सार्वभौमत्वेन (अभिषिञ्चामि)॥३७॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैः सर्वविद्याविद्भिर्भूत्वा त्वा सूर्यादिगुणकर्मसदृशस्वभावो राजा मन्तव्यः॥३७॥
Subject
पुनर्मनुष्याः कीदृशं राजानं मन्येरन्नित्युपदिश्यते॥
Anvaya
हे विद्वन् राजन्! यथाऽहं त्वा सवितुर्देवस्य प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम्। सरस्वत्यै वाचो यन्तुरग्नेर्यन्त्रेण साम्राज्येनाभिषिञ्चामि तथा भवान् सुखेन मामभिषिञ्चतु॥३७॥