Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 18 / Mantra 34

77 Mantra
18/34
Devata- अन्नपतिर्देवता Rishi- देवा ऋषयः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
वाजः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नो॒ वाजो॑ दे॒वान् ह॒विषा॑ वर्द्धयाति। वाजो॒ हि मा॒ सर्व॑वीरं च॒कार॒ सर्वा॒ऽआशा॒ वाज॑पतिर्भवेयम्॥३४॥

वाजः॑। पु॒रस्ता॑त्। उ॒त। म॒ध्य॒तः। नः॒। वाजः॑। दे॒वान्। ह॒विषा॑। व॒र्द्ध॒या॒ति॒। वाजः॑। हि। मा॒। सर्व॑वीर॒मिति॒ सर्व॑ऽवीरम्। च॒कार॑। सर्वाः॑। आशाः॑। वाज॑पति॒रिति॒ वाज॑ऽपतिः। भ॒वे॒य॒म् ॥३४ ॥

Mantra without Swara
वाजः पुरस्तादुत मध्यतो नो वाजो देवान्हविषा वर्धयाति । वाजो हि मा सर्ववीरञ्चकार सर्वाऽआशा वाजपतिर्भवेयम् ॥

वाजः। पुरस्तात्। उत। मध्यतः। नः। वाजः। देवान्। हविषा। वर्द्धयाति। वाजः। हि। मा। सर्ववीरमिति सर्वऽवीरम्। चकार। सर्वाः। आशाः। वाजपतिरिति वाजऽपतिः। भवेयम्॥३४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(वाजः) अन्नम् (पुरस्तात्) प्रथमतः (उत) अपि (मध्यतः) (नः) अस्मान् (वाजः) अन्नम् (देवान्) दिव्यान् गुणान् (हविषा) दानेनादानेन च (वर्द्धयाति) वर्द्धयेत् (वाजः) (हि) किल (मा) माम् (सर्ववीरम्) सर्वे वीरा यस्य तम् (चकार) करोति (सर्वाः) (आशाः) दिशः (वाजपतिः) अन्नादिरक्षकः (भवेयम्)॥३४॥
Essence
अन्नमेव सर्वान् प्राणिनो वर्द्धयति, अन्नेनैव प्राणिनः सर्वासु दिक्षु भ्रमन्ति, अनेन विना किमपि कर्तुं न शक्नुवन्ति॥३४॥
Subject
अन्नमेव सर्वान् पालयतीत्याह॥
Anvaya
यद्वाजो हविषा पुरस्तादुत मध्यतो नो वर्द्धयाति, यद्वाजो देवाँश्च वर्द्धयाति, यद्धि वाजो मा सर्ववीरं चकार, तेनाहं वाजपतिर्भवेयम्, सर्वा आशा जयेयं च॥३४॥