Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 18 / Mantra 33

77 Mantra
18/33
Devata- अन्नपतिर्देवता Rishi- देवा ऋषयः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
वाजो॑ नोऽअ॒द्य प्र सु॑वाति॒ दानं॒ वाजो॑ दे॒वाँ२ऽऋ॒तुभिः॑ कल्पयाति। वाजो॒ हि मा सर्व॑वीरं ज॒जान॒ विश्वा॒ऽआशा॒ वाज॑पतिर्जयेयम्॥३३॥

वाजः॑। नः॒। अ॒द्य। प्र। सु॒वा॒ति॒। दान॑म्। वाजः॑। दे॒वान्। ऋ॒तुभि॒रित्यृ॒तुऽभिः॑। क॒ल्प॒या॒ति॒। वाजः॑। हि। मा। सर्व॑वीर॒मिति॒ सर्व॑ऽवीरम्। ज॒जान॑। विश्वाः॑। आशाः॑। वाज॑पति॒रिति॒ वाज॑ऽपतिः। ज॒ये॒य॒म् ॥३३ ॥

Mantra without Swara
वाजो नोऽअद्य प्रसुवाति दानँवाजो देवाँऽऋतुभिः कल्पयाति । वाजो हि मा सर्ववीरञ्जजान विश्वाऽआशा वाजपतिर्जयेयम् ॥

वाजः। नः। अद्य। प्र। सुवाति। दानम्। वाजः। देवान्। ऋतुभिरित्यृतुऽभिः। कल्पयाति। वाजः। हि। मा। सर्ववीरमिति सर्वऽवीरम्। जजान। विश्वाः। आशाः। वाजपतिरिति वाजऽपतिः। जयेयम्॥३३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(वाजः) अन्नम् (नः) अस्मभ्यम् (अद्य) अस्मिन् दिने (प्र) (सुवाति) प्रेरयेत् (दानम्) (वाजः) (देवान्) विदुषो दिव्यान् गुणान् वा (ऋतुभिः) वसन्तादिभिः (कल्पयाति) समर्थयेत् (वाजः) (हि) खलु (मा) माम् (सर्ववीरम्) सर्वे वीरा यस्मात् तम् (जजान) जनयतु। अत्र लोडर्थे लिट् (विश्वाः) समग्राः (आशाः) दिशः (वाजपतिः) अन्नाद्यधिष्ठाता (जयेयम्) उत्कर्षेयम्॥३३॥
Essence
यावन्तीह खलु वस्तूनि सन्ति, तावतामन्नमेव श्रेष्ठमस्ति, यतोऽन्नवान् सर्वत्र विजयी जायते॥३३॥
Subject
पुनर्मनुष्यैः किं किमभीप्सितव्यमित्याह॥
Anvaya
हे मनुष्याः! ययाऽद्य यद्वाजो नो दानं प्रसुवाति, वाज ऋतुभिर्देवान् कल्पयाति, यद्धि वाजः सर्ववीरं मा जजान, तेनाहं वाजपतिर्भूत्वा विश्वा आशा जयेयम्, तथा यूयमपि जयत॥३३॥