Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 18 / Mantra 31

77 Mantra
18/31
Devata- विश्वेदेवा देवताः Rishi- देवा ऋषयः Chhand- निचृदार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
विश्वे॑ऽअ॒द्य म॒रुतो॒ विश्व॑ऽऊ॒ती विश्वे॑ भवन्त्व॒ग्नयः॒ समि॑द्धाः। विश्वे॑ नो दे॒वाऽअव॒साग॑मन्तु॒ विश्व॑मस्तु॒ द्रवि॑णं॒ वाजो॑ऽअ॒स्मे॥३१॥

विश्वे॑। अ॒द्य। म॒रुतः॑। विश्वे॑। ऊ॒ती। विश्वे॑। भ॒व॒न्तु॒। अ॒ग्नयः॑। समि॑द्धा॒ इति॒ सम्ऽइ॑द्धाः। विश्वे॑। नः॒। दे॒वाः। अ॒व॒सा। आ। ग॒म॒न्तु॒। विश्व॑म्। अ॒स्तु॒। द्रवि॑णम्। वाजः॑। अ॒स्मेऽइत्य॒स्मे ॥३१ ॥

Mantra without Swara
विश्वेऽअद्य मरुतो विश्वऽऊती विश्वे भवन्त्वग्नयः समिद्धाः । विश्वे नो देवाऽअवसागमन्तु विश्वमस्तु द्रविणँवाजोऽअस्मे ॥

विश्वे। अद्य। मरुतः। विश्वे। ऊती। विश्वे। भवन्तु। अग्नयः। समिद्धा इति सम्ऽइद्धाः। विश्वे। नः। देवाः। अवसा। आ। गमन्तु। विश्वम्। अस्तु। द्रविणम्। वाजः। अस्मेऽइत्यस्मे॥३१॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(विश्वे) सर्वे (अद्य) (मरुतः) वायवः (विश्वे) (ऊती) ऊत्या रक्षणादिना सह। अत्र सुपां सुलुग्॰ [अष्टा॰७.१.३९] इति पूर्वसवर्णादेशः (विश्वे) (भवन्तु) (अग्नयः) पावका इव (समिद्धाः) सम्यक् प्रदीप्ताः (विश्वे) (नः) अस्माकं (देवाः) विद्वांसः (अवसा) पालनादिना (आ) समन्तात् (गमन्तु) गच्छन्तु। अत्र बहुलं छन्दसि [अष्टा॰२.४.७३] इति शपो लुक् (विश्वम्) अखिलम् (अस्तु) प्राप्तं भवतु (द्रविणम्) धनम् (वाजः) अन्नम् (अस्मे) अस्मभ्यम्॥३१॥
Essence
ये मनुष्या आलस्यं विहाय विदुषः सङ्गत्य पृथिव्यां प्रयतन्ते, ते समग्रानुत्तमान् पदार्थान् प्राप्नुवन्ति॥३१॥
Subject
अथ प्राणिनां कर्त्तव्यमुपदिश्यते॥
Anvaya
अस्यां पृथिव्यामद्य विश्वे मरुतो विश्वे प्राणिनः पदार्थाश्च विश्वे समिद्धा अन्य इव न ऊती भवन्तु, विश्वे देवा अवसाऽऽगमन्तु, यतोऽस्मे विश्वं द्रविणं वाजश्चास्तु॥३१॥