Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 18 / Mantra 22

77 Mantra
18/22
Devata- यज्ञवानात्मा देवता Rishi- देवा ऋषयः Chhand- भुरिक् शक्वरी Swara- धैवतः
Mantra with Swara
अ॒ग्निश्च॑ मे घ॒र्मश्च॑ मे॒ऽर्कश्च॑ मे॒ सूर्य॑श्च मे प्रा॒णश्च॑ मेऽश्वमे॒धश्च॑ मे पृथि॒वी च॒ मेऽदि॑तिश्च मे॒ दिति॑श्च मे॒ द्यौश्च॑ मे॒ऽङ्गुल॑यः॒ शक्व॑रयो॒ दिश॑श्च मे य॒ज्ञेन॑ कल्पन्ताम्॥२२॥

अ॒ग्निः। च॒। मे॒। घ॒र्मः। च॒। मे॒। अ॒र्कः। च॒। मे॒। सूर्यः। च॒। मे॒। प्रा॒णः। च॒। मे॒। अ॒श्व॒मे॒धः। च॒। मे॒। पृ॒थि॒वी। च॒। मे॒। अदि॑तिः। च॒। मे॒। दितिः॑। च॒। मे॒। द्यौः। च॒। मे॒। अ॒ङ्गुल॑यः। शक्व॑रयः। दिशः॑। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म् ॥२२ ॥

Mantra without Swara
अग्निश्च मे घर्मश्च मेर्कश्च मे सूर्यश्च मे प्राणश्च मे स्वमेधश्च मे पृथिवी च मेदितिश्च मे दितिश्च मे द्यौश्च मेङ्गुलयः शक्वरयो दिशश्च मे यज्ञेन कल्पन्ताम् ॥

अग्निः। च। मे। घर्मः। च। मे। अर्कः। च। मे। सूर्यः। च। मे। प्राणः। च। मे। अश्वमेधः। च। मे। पृथिवी। च। मे। अदितिः। च। मे। दितिः। च। मे। द्यौः। च। मे। अङ्गुलयः। शक्वरयः। दिशः। च। मे। यज्ञेन। कल्पन्ताम्॥२२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अग्निः) पावकः (च) तत्प्रयोगः (मे) (घर्मः) तापः (च) शान्तिः (मे) (अर्कः) पूजनीयसामग्रीविशेषः (च) एतच्छुद्धिकरो व्यवहारः (मे) (सूर्यः) सविता (च) जीविकाहेतुः (मे) (प्राणः) जीवनहेतुः (च) बाह्यो वायुः (मे) (अश्वमेधः) राष्ट्रम् (च) राजनीतिः (मे) (पृथिवी) भूमिः (च) एतस्थाः सर्वपदार्थाः (मे) (अदितिः) अखण्डिता नीतिः (च) जितेन्द्रियत्वम् (मे) (दितिः) खण्डिता सामग्री (च) अनित्यं जीवनं शरीरादिकं वा (मे) (द्यौः) धर्मप्रकाशः (च) अहर्निशम् (मे) (अङ्गुलयः) अङ्गन्ति प्राप्नुवन्ति याभिस्ताः (शक्वरयः) शक्तयः (दिशः) (च) उपदिशः (मे) (यज्ञेन) सङ्गतिकरणयोग्येन परमात्मना (कल्पन्ताम्)॥२२॥
Essence
ये प्राणिसुखाय यज्ञमनुतिष्ठन्ति, ते महाशयाः सन्तीति वेद्यम्॥२२॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
मेऽग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मेऽश्वमेधश्च मे पृथिवी च मेऽदितिश्च मे दितिश्च मे द्यौश्च मेऽङ्गुलयः शक्वरयो दिशश्च यज्ञेन कल्पन्ताम्॥२२॥