Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 18 / Mantra 21

77 Mantra
18/21
Devata- याङ्गवानात्मा देवताः Rishi- देवा ऋषयः Chhand- विराड्धृतिः Swara- ऋषभः
Mantra with Swara
स्रुच॑श्च मे चम॒साश्च॑ मे वाय॒व्यानि च मे द्रोणकल॒शश्च॑ मे॒ ग्रावा॑णश्च मेऽधि॒षव॑णे च मे पू॒त॒भृच्च॑ मऽआधव॒नीय॑श्च मे॒ वेदि॑श्च मे ब॒र्हिश्च॑ मेऽवभृ॒थश्च॑ मे स्वगाका॒रश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम्॥२१॥

स्रुचः॑। च॒। मे॒। च॒म॒साः। च॒। मे॒। वा॒य॒व्या᳖नि। च॒। मे॒। द्रो॒ण॒क॒ल॒श इति॑ द्रोणऽकल॒शः। च॒। मे॒। ग्रावा॑णः। च॒। मे॒। अ॒धि॒षव॑णे। अ॒धि॒सव॑ने॒ इत्य॑धि॒ऽसव॑ने। च॒। मे॒। पू॒त॒भृदिति॑ पूत॒ऽभृत्। च॒। मे॒। आ॒ध॒व॒नीय॒ इत्या॑ऽधव॒नीयः॑। च॒। मे॒। वेदिः॑। च॒। मे॒। ब॒र्हिः। च॒। मे॒। अ॒व॒भृ॒थ इत्य॑वऽभृ॒थः। च॒। मे॒। स्व॒गा॒का॒र इति॑ स्वगाऽका॒रः च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म् ॥२१ ॥

Mantra without Swara
स्रुचश्च मे चमसाश्च मे वायव्यानि च मे द्रोणकलशश्च मे ग्रावाणश्च मे धिषवणे च मे पूतभृच्च मऽआधवनीयश्च मे वेदिश्च मे बर्हिश्च मे वभृतश्च मे स्वगाकारश्च मे यज्ञेन कल्पन्ताम् ॥

स्रुचः। च। मे। चमसाः। च। मे। वायव्यानि। च। मे। द्रोणकलश इति द्रोणऽकलशः। च। मे। ग्रावाणः। च। मे। अधिषवणे। अधिसवने इत्यधिऽसवने। च। मे। पूतभृदिति पूतऽभृत्। च। मे। आधवनीय इत्याऽधवनीयः। च। मे। वेदिः। च। मे। बर्हिः। च। मे। अवभृथ इत्यवऽभृथः। च। मे। स्वगाकार इति स्वगाऽकारः च। मे। यज्ञेन। कल्पन्ताम्॥२१॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(स्रुचः) जुह्वादयः (च) तच्छुद्धिः (मे) (चमसाः) होमभोजनपात्राणि (च) उपकरणानि (मे) (वायव्यानि) वायुषु साधूनि (च) पवनशुद्धिकराणि (मे) (द्रोणकलशः) द्रोणश्चासौ कलशश्च पात्रविशेषः (च) परिमाणविशेषाः (मे) (ग्रावाणः) शिलाफलकादयः (च) मुसलोलूखले (मे) (अधिषवणे) सोमलताद्योषधिसाधके (च) कुट्टनपेषणक्रिया (मे) (पूतभृत्) येन पूतं बिभर्त्ति तच्छुद्धिकरं सूर्यादिकम् (च) मार्जन्यादिकम् (मे) (आधवनीयः) आधवनसाधनपात्रविशेषः (च) मल्लिकादयः (मे) (वेदिः) यत्र हूयते (च) चतुष्कादिः (मे) (बर्हिः) उपवर्धको दर्भसमूहः (च) तद्योग्यम् (मे) (अवभृथः) यज्ञान्तस्नानादिकम् (च) सुगन्धलेपनम् (मे) (स्वगाकारः) येन स्वान् पदार्थान् गाते तं करोतीति (च) पवित्रीकरणम् (मे) (यज्ञेन) हवनादिना (कल्पन्ताम्) समर्थयन्तु॥२१॥
Essence
त एव मनुष्या यज्ञं कर्त्तुं शक्नुवन्ति, ये साधनोपसाधनसामग्रीरलंकुर्वन्ति॥२१॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
मे स्रुचश्च मे चमसाश्च मे वायव्यानि च मे द्रोणकलश्च मे ग्रावाणश्च मेऽधिषवणे च मे पूतभृच्च म आधवनीयश्च मे वेदिश्च मे बर्हिश्च मेऽवभृथश्च मे स्वगाकारश्च यज्ञेन कल्पन्ताम्॥२१॥