Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 18 / Mantra 20

77 Mantra
18/20
Devata- यज्ञानुष्टानात्मा देवता Rishi- देवा ऋषयः Chhand- स्वराडतिधृतिः Swara- षड्जः
Mantra with Swara
आ॒ग्र॒य॒णश्च॑ मे वैश्वदे॒वश्च॑ मे ध्रु॒वश्च॑ मे वैश्वान॒रश्च॑ मऽऐन्द्रा॒ग्नश्च॑ मे म॒हावै॑श्वदेवश्च मे मरुत्व॒तीया॑श्च मे॒ निष्के॑वल्यश्च मे सावि॒त्रश्च॑ मे सारस्व॒तश्च॑ मे पात्नीव॒तश्च॑ मे हारियोज॒नश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम्॥२०॥

आ॒ग्र॒य॒णः। च॒। मे॒। वै॒श्व॒दे॒व इति॑ वैश्वऽदे॒वः। च॒। मे॒। ध्रु॒वः। च॒। मे॒। वै॒श्वा॒न॒रः। च॒। मे॒। ऐ॒न्द्रा॒ग्नः। च॒। मे॒। म॒हावै॑श्वदेव॒ इति॑ म॒हाऽवै॑श्वदेवः। च॒। मे॒। म॒रु॒त्व॒तीयाः॑। च॒। मे॒। निष्के॑वल्यः। निःके॑वल्य॒ इति॒ निःऽके॑वल्यः। च॒। मे॒। सा॒वि॒त्रः। च॒। मे॒। सा॒र॒स्व॒तः। च॒। मे॒। पा॒त्नी॒व॒त इति॑ पात्नीऽव॒तः। च॒। मे॒। हा॒रि॒यो॒ज॒न इति॑ हारिऽयोज॒नः। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म् ॥२० ॥

Mantra without Swara
आग्रयाणश्च मे वैश्वदेवश्च मे धु्रवश्च मे वैश्वानरश्च मऽऐन्द्राग्नश्च मे महावैश्वदेवश्च मे मरुत्वतीयाश्च मे निष्केवल्यश्च मे सावित्रश्च मे सारस्वतश्च मे पत्नीवतश्च मे हारियओजनश्च मे यज्ञेन कल्पन्ताम् ॥

आग्रयणः। च। मे। वैश्वदेव इति वैश्वऽदेवः। च। मे। ध्रुवः। च। मे। वैश्वानरः। च। मे। ऐन्द्राग्नः। च। मे। महावैश्वदेव इति महाऽवैश्वदेवः। च। मे। मरुत्वतीयाः। च। मे। निष्केवल्यः। निःकेवल्य इति निःऽकेवल्यः। च। मे। सावित्रः। च। मे। सारस्वतः। च। मे। पात्नीवत इति पात्नीऽवतः। च। मे। हारियोजन इति हारिऽयोजनः। च। मे। यज्ञेन। कल्पन्ताम्॥२०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(आग्रयणः) मार्गशीर्षादिमासनिष्पन्नो यज्ञविशेषः (च) (मे) (वैश्वदेवः) विश्वेषां देवानामयं सम्बन्धी (च) (मे) (ध्रुवः) निश्चलः (च) (मे) (वैश्वानरः) विश्वेषां सर्वेषां नराणामयं सत्कारः (च) (मे) (ऐन्द्राग्नः) इन्द्रो वायुरग्निर्विद्युच्च ताभ्यां निर्वृत्तः (च) (मे) (महावैश्वदेवः) महतां विश्वेषां सर्वेषामयं व्यवहारः (च) (मे) (मरुत्वतीयाः) मरुतां सम्बन्धिनो व्यवहाराः (च) (मे) (निष्केवल्याः) नितरां केवलं सुखं यस्मिंस्तस्मिन् भवः (च) (मे) (सावित्रः) सवितुः सूर्यस्यायं प्रभावः (च) (मे) (सारस्वतः) सरस्वत्या वाण्या अयं सम्बन्धी (च) (मे) (पात्नीवतः) प्रशस्ता पत्नी यज्ञसम्बन्धिनी तद्वतोऽयम् (च) (मे) (हारियोजनः) हरीणामश्वानां योजयिता तस्यायमनुक्रमः (च) (मे) (यज्ञेन) संगतिकरणेन (कल्पन्ताम्)॥२०॥
Essence
ये मनुष्यास्सामयिकीं क्रियां विद्वत्सङ्गं चाश्रित्य विवाहितस्त्रीव्रता भवेयुस्ते पदार्थविद्यां कुतो न जानीयुः॥२०॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च म ऐन्द्राग्नश्च मे महावैश्वदेवश्च मे मरुत्वतीयाश्च मे निष्केवल्यश्च मे सावित्रश्च मे सारस्वतश्च मे पात्नीवतश्च मे हारियोजनश्च यज्ञेन कल्पन्ताम्॥२०॥