Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 18 / Mantra 2

77 Mantra
18/2
Devata- प्रजापतिर्देवता Rishi- देवा ऋषयः Chhand- भुरितिजगती Swara- निषादः
Mantra with Swara
प्रा॒णश्च॑ मेऽपा॒नश्च॑ मे व्या॒नश्च॒ मेऽसु॑श्च मे चि॒त्तं च॑ म॒ऽआधी॑तं च मे॒ वाक् च॑ मे॒ मन॑श्च मे॒ चक्षु॑श्च मे॒ श्रोत्रं॑ च मे॒ दक्ष॑श्च मे॒ बलं॑ च मे य॒ज्ञेन॑ कल्पन्ताम्॥२॥

प्रा॒णः। च॒। मे॒। अ॒पा॒न इत्य॑पऽआ॒नः। च॒। मे॒। व्या॒न इति॑ विऽआ॒नः। च॒। मे॒। असुः॑। च॒। मे॒। चि॒त्तम्। च॒। मे॒। आधी॑त॒मित्याऽधी॑तम्। च॒। मे॒। वाक्। च॒। मे॒। मनः॑। च॒। मे॒। चक्षुः॑। च॒। मे॒। श्रोत्र॑म्। च॒। मे। दक्षः॑। च॒। मे॒। बलम्। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म् ॥२ ॥

Mantra without Swara
प्राणश्च मे पानश्च मे व्यानश्च मे सुश्च मे चित्तञ्च म आधीतञ्च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रञ्च मे दक्षश्च मे बलञ्च मे यज्ञेन कल्पन्ताम् ॥

प्राणः। च। मे। अपान इत्यपऽआनः। च। मे। व्यान इति विऽआनः। च। मे। असुः। च। मे। चित्तम्। च। मे। आधीतमित्याऽधीतम्। च। मे। वाक्। च। मे। मनः। च। मे। चक्षुः। च। मे। श्रोत्रम्। च। मे। दक्षः। च। मे। बलम्। च। मे। यज्ञेन। कल्पन्ताम्॥२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(प्राणः) हृदिस्थो वायुः (च) उदानः कण्ठदेशस्थः पवनः (मे) (अपानः) नाभेरधोगमी वातः (च) समानो नाभिसंस्थितो वायुः (मे) (व्यानः) शरीरस्य सर्वेषु संधिषु व्याप्तः पवनः (च) धनञ्जयः (मे) (असुः) नागादिर्मरुत् (च) अन्ये वायवः (मे) (चित्तम्) स्मृतिः (च) बुद्धिः (मे) (आधीतम्) समन्ताद् धृतिर्निश्चयवृत्तिः (च) रक्षितम् (मे) (वाक्) वाणी (च) श्रवणम् (मे) (मनः) संकल्पविकल्पात्मिका वृत्तिः (च) अहङ्कारः (मे) (चक्षुः) चक्षे पश्यामि येन तन्नेत्रम् (च) प्रत्यक्षप्रमाणम् (मे) (श्रोत्रम्) शृणोमि येन तत् (च) आगमप्रमाणम् (मे) (दक्षः) चातुर्य्यम् (च) सामयिकं भानम् (मे) (बलम्) (च) पराक्रमः (मे) (यज्ञेन) धर्मानुष्ठानेन (कल्पन्ताम्)॥२॥
Essence
मनुष्याः ससाधनान् प्राणादीन् धर्मानुष्ठानाय नियोजयन्तु॥२॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
मे प्राणश्च मेऽपानश्च मे व्यानश्च मेऽसुश्च मे चित्तं म आधीतं च मे वाक् च मे मनश्च मे चक्षुश्च मे श्रोत्रं च मे दक्षश्च मे बलं च यज्ञेन कल्पन्तां समर्था भवन्तु॥२॥