Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 18 / Mantra 18

77 Mantra
18/18
Devata- राज्यैश्वर्यादियुक्तात्मा देवता Rishi- देवा ऋषयः Chhand- भुरिक् शक्वरी Swara- धैवतः
Mantra with Swara
पृ॒थि॒वी च॑ म॒ऽइन्द्र॑श्च मे॒ऽन्तरि॑क्षं च म॒ऽइन्द्र॑श्च मे॒ द्यौश्च॑ म॒ऽइन्द्र॑श्च मे॒ समा॑श्च म॒ऽइन्द्र॑श्च मे॒ नक्ष॑त्राणि च म॒ऽइन्द्र॑श्च मे॒ दिश॑श्च म॒ऽइन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम्॥१८॥

पृ॒थि॒वी। च॒। मे॒। इन्द्रः॑। च॒। मे॒। अ॒न्तरि॑क्षम्। च॒। मे॒। इन्द्रः॑। च॒। मे॒। द्यौः। च॒। मे॒। इन्द्रः॑। च॒। मे॒। समाः॑। च॒। मे॒। इन्द्रः॑। च॒। मे॒। नक्ष॑त्राणि। च॒। मे॒। इन्द्रः॑। च॒। मे॒। दिशः॑। च॒। मे॒। इन्द्रः॑। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म् ॥१८ ॥

Mantra without Swara
पृथिवी च मऽइन्द्रश्च मेन्तरिक्षञ्च मऽइन्द्रश्च मे द्यौश्च मऽइन्द्रश्च मे समाश्च मऽइन्द्रश्च मे नक्षत्राणि च मऽइन्द्रश्च मे दिशश्च मऽइन्द्रश्च मे यज्ञेन कल्पन्ताम् ॥

पृथिवी। च। मे। इन्द्रः। च। मे। अन्तरिक्षम्। च। मे। इन्द्रः। च। मे। द्यौः। च। मे। इन्द्रः। च। मे। समाः। च। मे। इन्द्रः। च। मे। नक्षत्राणि। च। मे। इन्द्रः। च। मे। दिशः। च। मे। इन्द्रः। च। मे। यज्ञेन। कल्पन्ताम्॥१८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(पृथिवी) विस्तीर्णा भूमिः (च) अत्रस्थाः पदार्थाः (मे) (इन्द्रः) विद्युत्क्रिया (च) बलप्रदा (मे) (अन्तरिक्षम्) अक्षयमाकाशम् (च) अत्रस्थाः पदार्थाः (मे) (इन्द्रः) सर्वैश्वर्याधारः (च) एतत्प्रयोगः (मे) (द्यौः) प्रकाशकर्मा (च) एतत्साधकाः पदार्थाः (मे) (इन्द्रः) सकलपदार्थविच्छेत्ता (च) विच्छेद्याः पदार्थाः (मे) (समाः) संवत्सराः (च) क्षणादयः (मे) (इन्द्रः) कालज्ञाननिमित्तः (च) गणितम् (मे) (नक्षत्राणि) यानि कारणरूपेण न क्षीयन्ते तानि भुवनानि (च) एतत्सम्बन्धिनः (मे) (इन्द्रः) लोकलोकान्तरस्था विद्युत् (च) (मे) (दिशः) पूर्वाद्याः (च) एतत्स्थानि वस्तूनि (मे) (इन्द्रः) दिग्ज्ञापकः (च) ध्रुवतारा (मे) (यज्ञेन) पृथिवीकालविज्ञापकेन (कल्पन्ताम्)॥१८॥
Essence
मनुष्या पृथिव्यादिपदार्थांस्तत्रस्थां विद्युतं च यावन्न जानन्ति, तावदैश्वर्यं नह्याप्नुवन्ति॥१८॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षं च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे समाश्च म इन्द्रश्च मे नक्षत्राणि च म इन्द्रश्च मे दिशश्च म इन्द्रश्च यज्ञेन कल्पन्ताम्॥१८॥