Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 18 / Mantra 17

77 Mantra
18/17
Devata- मित्रश्वर्य्यसहित आत्मा देवता Rishi- देवा ऋषयः Chhand- स्वराट् शक्वरी Swara- धैवतः
Mantra with Swara
मि॒त्रश्च॑ म॒ऽइन्द्र॑श्च मे॒ वरु॑णश्च म॒ऽइन्द्र॑श्च मे धा॒ता च॑ म॒ऽइन्द्र॑श्च मे॒ त्वष्टा॑ च म॒ऽइन्द्र॑श्च मे म॒रुत॑श्च म॒ऽइन्द्र॑श्च मे विश्वे॑ च मे दे॒वाऽइन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम्॥१७॥

मि॒त्रः। च॒। मे॒। इन्द्रः॑। च॒। मे॒। वरु॑णः। च॒। मे। इन्द्रः॑। च॒। मे॒। धा॒ता। च॒। मे॒। इन्द्रः॑। च॒। मे॒। त्वष्टा॑। च॒। मे॒। इन्द्रः॑। च॒। मे॒। म॒रुतः। च॒। मे॒। इन्द्रः॑। च॒। मे॒। विश्वेः॑। च॒। मे॒। दे॒वाः। इन्द्रः॑। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म् ॥१७ ॥

Mantra without Swara
मित्रश्च मऽइन्द्रश्च मे वरुणश्च मऽइन्द्रश्च मे धाता च मऽइन्द्रश्च मे त्वष्टा च मऽइन्द्रश्च मे मरुतश्च मऽइन्द्रश्च मे विश्वे च मे देवाऽइन्द्रश्च मे यज्ञेन कल्पन्ताम् ॥

मित्रः। च। मे। इन्द्रः। च। मे। वरुणः। च। मे। इन्द्रः। च। मे। धाता। च। मे। इन्द्रः। च। मे। त्वष्टा। च। मे। इन्द्रः। च। मे। मरुतः। च। मे। इन्द्रः। च। मे। विश्वेः। च। मे। देवाः। इन्द्रः। च। मे। यज्ञेन। कल्पन्ताम्॥१७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(मित्रः) प्राणः (च) समानः (मे) (इन्द्रः) विद्युत् (च) तेजः (मे) (वरुणः) उदानः। प्राणोदानौ मित्रावरुणौ॥ (शत॰१.८.३.१२) (च) व्यानः (मे) (इन्द्रः) सूर्य्यः (च) धृतिः (मे) (धाता) धर्त्ता (च) धैर्य्यम् (मे) (इन्द्रः) परमैश्वर्य्यप्रापकः (च) न्यायः (मे) (त्वष्टा) विच्छेदकोऽग्निः (च) पुरुषार्थः (मे) (इन्द्रः) शत्रुविदारको राजा (च) शिल्पम् (मे) (मरुतः) ब्रह्माण्डस्था अन्ये वायवः (च) शारीरा धातवः (मे) (इन्द्रः) सर्वाभिव्यापिका तडित् (च) एतत्प्रयोगः (मे) (विश्वे) सर्वे (च) सर्वस्वम् (मे) (देवाः) दिव्यगुणाः पृथिव्यादयः (इन्द्रः) परमैश्वर्यप्रदाता (च) एतदुपयोगः (मे) (यज्ञेन) वायुविद्याविधानेन (कल्पन्ताम्)॥१७॥
Essence
मनुष्याः प्राणविद्युद्विद्यां विज्ञायैतयोः सर्वत्राभिव्याप्तिं च ज्ञात्वा दीर्घजीवनं सम्पादयेयुः॥१७॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे धाता च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च देवा म इन्द्रश्च यज्ञेन कल्पन्ताम्॥१७॥