Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 18 / Mantra 16

77 Mantra
18/16
Devata- अग्नदिविद्याविदात्मा देवता Rishi- देवा ऋषयः Chhand- निचृदतिशक्वरी Swara- पञ्चमः
Mantra with Swara
अ॒ग्निश्च॑ म॒ऽइन्द्र॑श्च मे॒ सोम॑श्च म॒ऽइ॒न्द्र॑श्च मे सवि॒ता च॑ म॒ऽइन्द्र॑श्च मे॒ सर॑स्वती च म॒ऽइन्द्र॑श्च मे पू॒षा च॑ म॒ऽइन्द्र॑श्च मे॒ बृह॒स्पति॑श्च म॒ऽइन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम्॥१६॥

अ॒ग्निः। च॒। मे॒। इन्द्रः॑। च॒। मे॒। सोमः॑। च॒। मे॒। इन्द्रः॑। च॒। मे॒। स॒वि॒ता। च॒। मे॒। इन्द्रः॑। च॒। मे॒। सर॑स्वती। च॒। मे॒। इन्द्रः॑। च॒। मे॒। पू॒षा। च॒। मे॒। इन्द्रः॑। च॒। मे॒। बृह॒स्पतिः॑। च॒। मे॒। इन्द्रः॑। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म् ॥१६ ॥

Mantra without Swara
अग्निश्च मऽइन्द्रश्च मे सोमश्च मऽइन्द्रश्च मे सविता च मऽइन्द्रश्च मे सरस्वती च मऽइन्द्रश्च मे पूषा च मऽइन्द्रश्च मे बृहस्पतिश्च मऽइन्द्रश्च मे यज्ञेन कल्पन्ताम् ॥

अग्निः। च। मे। इन्द्रः। च। मे। सोमः। च। मे। इन्द्रः। च। मे। सविता। च। मे। इन्द्रः। च। मे। सरस्वती। च। मे। इन्द्रः। च। मे। पूषा। च। मे। इन्द्रः। च। मे। बृहस्पतिः। च। मे। इन्द्रः। च। मे। यज्ञेन। कल्पन्ताम्॥१६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अग्निः) सूर्यः प्रसिद्धस्वरूपः (च) भौमः (मे) (इन्द्रः) विद्युत् (च) वायुः (मे) (सोमः) सोम्यगुणसम्पन्नो जनः पदार्थो वा (च) वृष्टिः (मे) (इन्द्रः) अन्यायविदारकः सभेशः (च) सभ्याः (मे) (सविता) ऐश्वर्य्ययुक्तः (च) एतत्साधनानि (मे) (इन्द्रः) सकलाऽविद्याच्छेदकोऽध्यापकः (च) विद्यार्थिनः (मे) (सरस्वती) प्रशस्तबोधः शिक्षायुक्ता वाणी वा (च) सत्यवक्ता (मे) (इन्द्रः) विद्यार्थिनो जाड्यविच्छेदक उपदेशकः (च) श्रोतारः (मे) (पूषा) पोषकः (च) युक्ताहारविहारौ (मे) (इन्द्रः) यः पुष्टिकरणविद्यायां रमते (च) वैद्यः (मे) (बृहस्पतिः) बृहतां व्यवहाराणां रक्षकः (च) राजा (मे) (इन्द्रः) सकलैश्वर्यवर्द्धकः (च) सेनेशः (मे) (यज्ञेन) विद्यैश्वर्य्योन्नतिकरणेन (कल्पन्ताम्)॥१६॥
Essence
हे मनुष्याः! युष्माभिः सुविचारेण स्वकीयाः सर्वे पदार्थाः श्रेष्ठपालनाय दुष्टशिक्षणाय च सततं योजनीयाः॥१६॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
मेऽग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च यज्ञेन कल्पन्ताम्॥१६॥