Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 18 / Mantra 14

77 Mantra
18/14
Devata- अग्न्यादियुक्ता आत्मा देवता Rishi- देवा ऋषयः Chhand- भुरिगष्टिः Swara- मध्यमः
Mantra with Swara
अ॒ग्निश्च॑ म॒ऽआप॑श्च मे वी॒रुध॑श्च म॒ऽओष॑धयश्च मे कृष्टप॒च्याश्च॑ मेऽकृष्टप॒च्याश्च॑ मे ग्रा॒म्याश्च॑ मे प॒शव॑ऽआर॒ण्याश्च॑ मे वि॒त्तञ्च॑ मे॒ वित्ति॑श्च मे भू॒तञ्च॑ मे॒ भूति॑श्च मे य॒ज्ञेन॑ कल्पन्ताम्॥१४॥

अ॒ग्निः। च॒। मे॒। आपः॑। च॒। मे॒। वी॒रुधः॑। च॒। मे॒। ओष॑धयः। च॒। मे॒। कृ॒ष्ट॒प॒च्याः इति॑ कृष्टऽप॒च्याः। च॒। मे॒। अ॒कृ॒ष्ट॒प॒च्या इत्य॑कृष्टऽप॒च्याः। च॒। मे॒। ग्रा॒म्याः। च॒। मे॒। प॒शवः॑। आ॒र॒ण्याः। च॒। मे॒। वि॒त्तम्। च॒। मे॒। वित्तिः॑। च॒। मे॒। भू॒तम्। च॒। मे॒। भूतिः॑। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म् ॥१४ ॥

Mantra without Swara
अग्निश्च मऽआपश्च मे वीरुधश्च मऽओषधयश्च मे कृष्टपच्याश्च मे कृष्टपच्याश्च मे ग्राम्याश्च मे पशवऽआरण्याश्च मे वित्तं च मे वित्तिश्च मे भूतञ्च मे भूतिश्च मे यज्ञेन कल्पन्ताम् ॥

अग्निः। च। मे। आपः। च। मे। वीरुधः। च। मे। ओषधयः। च। मे। कृष्टपच्याः इति कृष्टऽपच्याः। च। मे। अकृष्टपच्या इत्यकृष्टऽपच्याः। च। मे। ग्राम्याः। च। मे। पशवः। आरण्याः। च। मे। वित्तम्। च। मे। वित्तिः। च। मे। भूतम्। च। मे। भूतिः। च। मे। यज्ञेन। कल्पन्ताम्॥१४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अग्निः) वह्निः (च) विद्युदादिः (मे) (आपः) जलानि (च) जलरत्नानि (मे) (वीरुधः) गुल्मविशेषाः (च) तृणशाकादि (मे) (ओषधयः) यवसोमलताद्याः (च) सर्वौषधादि (मे) (कृष्टपच्याः) या कृष्टेषु क्षेत्रेषु पच्यन्ते ताः (च) उत्तमानि शस्यादीनि (मे) (अकृष्टपच्याः) या अकृष्टेषु जङ्गलादिषु पच्यन्ते ताः (च) पर्वतादिषु पक्तव्याः (मे) (ग्राम्याः) ग्रामे भवाः (च) नगरस्थाः (मे) (पशवः) गवाद्याः (आरण्याः) अरण्ये वने भवा मृगादयः (च) सिंहादयः (मे) (वित्तम्) लब्धम् (च) सर्वं धनम् (मे) (वित्तिः) प्राप्तिः (च) प्राप्तव्यम् (मे) (भूतम्) रूपम् (च) नानाविधम् (मे) (भूतिः) ऐश्वर्यम् (च) एतत्साधनम् (मे) (यज्ञेन) सङ्गतिकरणयोग्येन (कल्पन्ताम्)॥१४॥
Essence
ये मनुष्याः पावकादिविद्यया सङ्गन्तव्यं शिल्पयज्ञं साध्नुवन्ति, त ऐश्वर्य लभन्ते॥१४॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
मेऽग्निश्च म आपश्च मे वीरुधश्च म ओषधयश्च मे कृष्टपच्याश्च मेऽकृष्टपच्याश्च मे ग्राम्याश्च म आरण्याश्च पशवो मे वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च यज्ञेन कल्पन्ताम्॥१४॥