Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 99

99 Mantra
17/99
Devata- यज्ञपुरुषो देवता Rishi- वामदेव ऋषिः Chhand- स्वराडार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
धाम॑न्ते॒ विश्वं॒ भुव॑न॒मधि॑ श्रि॒तम॒न्तः स॑मु॒द्रे हृ॒द्यन्तरायु॑षि। अ॒पामनी॑के समि॒थे यऽआभृ॑त॒स्तम॑श्याम॒ मधु॑मन्तं तऽऊ॒र्मिम्॥९९॥

धाम॑न्। ते॒। विश्व॑म्। भुव॑नम्। अधि॑। श्रि॒तम्। अ॒न्तरित्य॒न्तः। स॒मु॒द्रे। हृ॒दि। अ॒न्तरित्य॒न्तः। आयु॑षि। अ॒पाम्। अनी॑के। स॒मि॒थ इति॑ सम्ऽइ॒थे। यः। आभृ॑त॒ इत्याऽभृ॑तः। तम्। अ॒श्या॒म॒। मधु॑मन्त॒मिति॒ मधु॑ऽमन्तम्। ते॒। ऊ॒र्मिम् ॥९९ ॥

Mantra without Swara
धामन्ते विश्वम्भुवनमधिश्रितमन्तः समुद्रे हृद्यन्तरायुषि । अपामनीके समिथे यऽआभृतस्तमश्याम मधुमन्तन्त ऊर्मिम् ॥

धामन्। ते। विश्वम्। भुवनम्। अधि। श्रितम्। अन्तरित्यन्तः। समुद्रे। हृदि। अन्तरित्यन्तः। आयुषि। अपाम्। अनीके। समिथ इति सम्ऽइथे। यः। आभृत इत्याऽभृतः। तम्। अश्याम। मधुमन्तमिति मधुऽमन्तम्। ते। ऊर्मिम्॥९९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(धामन्) दधाति यस्मिंस्तस्मिन् (ते) तव (विश्वम्) सर्वम् (भुवनम्) भवन्ति भूतानि यस्मिन् (अधि) (श्रितम्) (अन्तः) मध्ये (समुद्रे) आकाशमिव व्याप्तस्वरूपे (हृदि) हृदये (अन्तः) मध्ये (आयुषि) जीवनहेतौ (अपाम्) प्राणानाम् (अनीके) सैन्ये (समिथे) संग्रामे (यः) संभारः (आभृतः) समन्ताद्धृतः (तम्) (अश्याम) प्राप्नुयाम (मधुमन्तम्) प्रशस्तमधुरादिगुणोपेतम् (ते) तव (ऊर्मिम्) बोधम्॥९९॥
Essence
मनुष्यैर्जगदीश्वरसृष्टौ परमप्रयत्नेन सख्युन्नतिः कार्या, सर्वाः साम्रगीर्धृत्वा युक्ताहारविहारेण शरीरारोग्यं संतत्य स्वेषामन्येषां चोपकारः कार्य इति शम्॥९९॥
Subject
अथेश्वरराजविषयमाह॥
Anvaya
हे जगदीश! यस्य ते धामन्नन्तः समुद्रे विश्वं भुवनाधिश्रितं तद्वयमश्याम। हे सभापते! तेऽपामन्तर्हृद्यायुष्यपामनीके समिथे यः सम्भार आभृतस्तं मधुमन्तमूर्मिं च वयमश्याम॥९९॥