Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 98

99 Mantra
17/98
Devata- यज्ञपुरुषो देवता Rishi- वामदेव ऋषिः Chhand- आर्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अ॒भ्यर्षत सुष्टु॒तिं गव्य॑मा॒जिम॒स्मासु॑ भ॒द्रा द्रवि॑णानि धत्त। इ॒मं य॒ज्ञं न॑यत दे॒वता॑ नो घृ॒तस्य॒ धारा॒ मधु॑मत्पवन्ते॥९८॥

अ॒भि। अ॒र्ष॒त॒। सु॒ष्टु॒तिम्। सु॒स्तु॒तिमिति॑ सुऽस्तु॒तिम्। गव्य॑म्। आ॒जिम्। अ॒स्मासु॑। भ॒द्रा। द्रवि॑णानि। ध॒त्त॒। इ॒मम्। य॒ज्ञम्। न॒य॒त॒। दे॒वता॑। नः॒। घृ॒तस्य॑। धाराः॑। मधु॑म॒दिति॒ मधु॑ऽमत्। प॒व॒न्ते॒ ॥९८ ॥

Mantra without Swara
अभ्यर्षत सुष्टुतिङ्गव्यमाजिमस्मासु भद्रा द्रविणानि धत्त । इमँयज्ञन्नयत देवता नो घृतस्य धारा मधुमत्पवन्ते ॥

अभि। अर्षत। सुष्टुतिम्। सुस्तुतिमिति सुऽस्तुतिम्। गव्यम्। आजिम्। अस्मासु। भद्रा। द्रविणानि। धत्त। इमम्। यज्ञम्। नयत। देवता। नः। घृतस्य। धाराः। मधुमदिति मधुऽमत्। पवन्ते॥९८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अभि) सर्वतः (अर्षत) प्राप्नुत (सुष्टुतिम्) शोभनां प्रशंसाम् (गव्यम्) गवि वाचि भवं बोधं धेनौ भवं दुग्धादिकं वा (आजिम्) अजन्ति जानन्ति सुकर्माणि येन तं संग्रामम्। इणजादिभ्य [उणा॰४.१३२] इतीण् प्रत्ययः। (अस्मासु) (भद्रा) कल्याणकराणि (द्रविणानि) (धत्त) (इमम्) (यज्ञम्) संगन्तव्यं गृहाश्रमव्यवहारम् (नयत) प्रापयत (देवता) विद्वांसः। अत्र सुपां सुलुग्॰ [अष्टा॰७.१.३९] इति जसो लुक्। (नः) अस्मान् (घृतस्य) प्रदीप्तस्य विज्ञानस्य सम्बन्धिन्यः (धाराः) सुशिक्षिता वाचः (मधुमत्) बहु मधु विद्यते यस्मिंस्तद् यथा स्यात् तथा (पवन्ते) प्राप्नुवन्ति॥९८॥
Essence
स्त्रीपुरुषैः सखिभिर्भूत्वा जगति प्रख्यातैर्भवितव्यम्। यथा स्वेभ्यस्तथान्येभ्योऽपि कल्याणकारकाणि द्रव्याण्युन्नेयानि। परमपुरुषार्थेन गृहाश्रमस्य शोभा कर्त्तव्या। वेदविद्या सततं प्रचारणीया च॥९८॥
Subject
विवाहितैः स्त्रीपुरुषैः किं कार्यमित्याह॥
Anvaya
हे स्त्रीपुरुषाः। यूयमुत्तमाचारेण सुष्टुतिमाजिं गव्यं चाभ्यर्षत, देवताऽस्मासु भद्रा द्रविणानि धत्त, न इमं यज्ञं नयत, या घृतस्य धारा विदुषो मधुमत्पवन्ते, ता अस्मान्नयत॥९८॥