Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 96

99 Mantra
17/96
Devata- यज्ञपुरुषो देवता Rishi- वामदेव ऋषिः Chhand- निचृदार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अ॒भिप्र॑वन्त॒ सम॑नेव॒ योषाः॑ कल्या॒ण्यः] स्मय॑मानासोऽअ॒ग्निम्। घृ॒तस्य॒ धाराः॑ स॒मिधो॑ नसन्त॒ ता जु॑षा॒णो ह॑र्यति जा॒तवे॑दाः॥९६॥

अ॒भि। प्र॒व॒न्त॒। सम॑ने॒वेति॒ सम॑नाऽइव। योषाः॑। क॒ल्या॒ण्यः᳕। स्मय॑मानासः। अ॒ग्निम्। घृ॒तस्य॑। धाराः॑। स॒मिध॒ इति॑ स॒म्ऽइधः॑। न॒स॒न्त॒। ताः। जु॒षा॒णः। ह॒र्यति॒। जा॒तवे॑दाः ॥९६ ॥

Mantra without Swara
अभि प्रवन्त समनेव योषाः कल्याण्यः स्मयमानासोऽअग्निम् । घृतस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः ॥

अभि। प्रवन्त। समनेवेति समनाऽइव। योषाः। कल्याण्यः। स्मयमानासः। अग्निम्। घृतस्य। धाराः। समिध इति सम्ऽइधः। नसन्त। ताः। जुषाणः। हर्यति। जातवेदाः॥९६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अभि) (प्रवन्त) गच्छन्ति। लङ्य[भावः। (समनेव) समानं मनो यासां ता इव। सुपां सुलुग्॰ [अष्टा॰७.१.३९] इति विभक्तेर्डादेशः (योषाः) स्त्रियः (कल्याण्यः) कल्याणाचरणशीलाः (स्मयमानासः) किञ्चिद्धासेन प्रसन्नताकारिण्यः (अग्निम्) तेजस्विनं विद्वांसम् (घृतस्य) शुद्धस्य ज्ञानस्य (धाराः) वाचः (समिधः) शब्दार्थसबन्धैः सम्यग् दीपिताः (नसन्त) प्राप्नुवन्ति। नसत इति गतिकर्मा॥ (निघं॰२.१४) (ताः) (जुषाणः) सेवमानः (हर्यति) कामयते। हर्यतीति कान्तिकर्मा॥ (निघं॰२.६) (जातवेदाः) जातं वेदो विज्ञानं यस्य सः॥९६॥
Essence
अत्रोपमालङ्कारः। यथा प्रसन्नचित्ता हर्षं प्राप्ताः सौभाग्यवत्यः स्त्रियः स्वस्वपतीन् प्राप्नुवन्ति, तथैव विद्याविज्ञानाभरणभूषिता वाचो विद्वांसं प्राप्नुवन्ति॥९६॥
Subject
पुनस्तदेवाह॥
Anvaya
स्मयमानासः कल्याण्यः समनेव योषा याः समिधो घृतस्य धारा अग्निमभिप्रवन्त नसन्त च ता जुषाणो जातवेदा हर्यति॥९६॥