Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 95

99 Mantra
17/95
Devata- यज्ञपुरुषो देवता Rishi- वामदेव ऋषिः Chhand- आर्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
सिन्धो॑रिव प्राध्व॒ने शू॑घ॒नासो॒ वात॑प्रमियः पतयन्ति य॒ह्वाः। घृ॒तस्य॒ धारा॑ऽअरु॒षो न वा॒जी काष्ठा॑ भि॒न्दन्नू॒र्मिभिः॒ पिन्व॑मानः॥९५॥

सिन्धो॑रि॒वेति॒ सिन्धाःऽइव। प्रा॒ध्व॒न इति॑ प्रऽअध्व॒ने। शू॒घ॒नासः॑। वात॑प्रमिय॒ इति॒ वात॑ऽप्रमियः। प॒त॒य॒न्ति॒। य॒ह्वाः। घृतस्य॑। धाराः॑। अ॒रु॒षः। न। वा॒जी। काष्ठाः॑। भि॒न्दन्। ऊ॒र्मिभि॒रित्यू॒र्मिः॑। पिन्व॑मानः ॥९५ ॥

Mantra without Swara
सिन्धोरिव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः । घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः ॥

सिन्धोरिवेति सिन्धाःऽइव। प्राध्वन इति प्रऽअध्वने। शूघनासः। वातप्रमिय इति वातऽप्रमियः। पतयन्ति। यह्वाः। घृतस्य। धाराः। अरुषः। न। वाजी। काष्ठाः। भिन्दन्। ऊर्मिभिरित्यूर्मिः। पिन्वमानः॥९५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(सिन्धोरिव) नद्या इव (प्राध्वने) प्रकृष्टश्चासावध्वा च तस्मिन्। सप्तम्यर्थे चतुर्थी (शूघनासः) क्षिप्रगमनाः। शूघनास इति क्षिप्रनामसु पठितम्॥ (निघं॰२.१५) (वातप्रमियः) वातेन प्रमातुं ज्ञातुं योग्याः (पतयन्ति) पतन्ति गच्छन्ति, चुरादित्वात् स्वार्थे णिच् (यह्वाः) महत्यः। यह्व इति महन्नामसु पठितम्॥ (निघं॰३.३) (घृतस्य) विज्ञानस्य (धाराः) वाचः (अरुषः) य ऋच्छत्यध्वानं सः (न) इव (वाजी) वेगवानश्वः (काष्ठाः) संग्रामप्रदेशान्। काष्ठा इति संग्रामनामसु पठितम्॥ (निघं॰२.१७) (भिन्दन्) विदारयन् (ऊर्मिभिः) शत्रुभेदनोत्थश्रमस्वेदोदकैः (पिन्वमानः) सिञ्चन्॥९५॥
Essence
अत्राप्युपमाद्वयम्-ये नदीवत् कार्यसिद्धये तूर्णगामिनोऽश्ववद् वेगवन्तः सर्वासु दिक्षु प्रवृत्तकीर्त्तयो जनाः परोपकारायोपदेशेन महान्ति दुःखानि सहन्ते, ते तेषां श्रोतारश्च जगत्स्वामिनो भवन्ति, नेतरे॥९५॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! प्राध्वने सिन्धोरिव शूघनासो वातप्रमियः काष्ठा भिन्दन्नूर्मिभिर्भूमिं पिन्वमानोऽरुषो वाजी न या यह्वा घृतस्य धाराः पतयन्ति, ता यूयं विजानीत॥९५॥