Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 94

99 Mantra
17/94
Devata- यज्ञपुरुषो देवता Rishi- वामदेव ऋषिः Chhand- निचृदार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
स॒म्यक् स्र॑वन्ति स॒रितो॒ न धेना॑ऽअ॒न्तर्हृ॒दा मन॑सा पू॒यमा॑नाः। ए॒तेऽअ॑र्षन्त्यू॒र्मयो॑ घृ॒तस्य॑ मृ॒गाऽइ॑व क्षिप॒णोरीष॑माणाः॥९४॥

स॒म्यक्। स्र॒वन्ति॒। स॒रितः॑। न। धेनाः॑। अ॒न्तः। हृ॒दा। मन॑सा। पू॒यमा॑नाः। ए॒ते। अ॒र्ष॒न्ति॒। ऊ॒र्मयः॑। घृ॒तस्य॑। मृ॒गाःऽइ॑व। क्षि॒प॒णोः। ईष॑माणाः ॥९४ ॥

Mantra without Swara
सम्यक्स्रवन्ति सरितो न धेनाऽअन्तर्हृदा मनसा पूयमानाः । एतेऽअर्षन्त्यूर्मयो घृतस्य मृगाऽइव क्षिपणोरीषमाणाः ॥

सम्यक्। स्रवन्ति। सरितः। न। धेनाः। अन्तः। हृदा। मनसा। पूयमानाः। एते। अर्षन्ति। ऊर्मयः। घृतस्य। मृगाःऽइव। क्षिपणोः। ईषमाणाः॥९४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(सम्यक्) (स्रवन्ति) क्षरन्ति (सरितः) नद्यः। सरित इति नदीनामसु पठितम्॥ (निघं॰१.१३) (न) इव (धेनाः) वाचः। धेनेति वाङ्नामसु पठितम्॥ (निघं॰१.११) (अन्तः) शरीरान्तर्व्यवस्थितेन (हृदा) विषयहारकेण (मनसा) शुद्धान्तःकरणेन (पूयमानाः) पवित्राः सत्यः (एते) (अर्षन्ति) गच्छन्ति प्राप्नुवन्ति (ऊर्मयः) तरङ्गाः (घृतस्य) प्रकाशितस्य विज्ञानस्य (मृगा इव) (क्षिपणोः) हिंसकस्य भयात् (ईषमाणाः) भयात् पलायमानाः॥९४॥
Essence
अत्रोपमावाचकलुप्तोपमालङ्काराः। यथा नद्यः समुद्रान् गच्छन्ति, तथैवान्तरिक्षस्थाच्छब्दसमुद्राद् वाचो विचरन्ति। यथा समुद्रस्य तरङ्गाश्चलन्ति यथा च व्याधाद् भीता मृगा धावन्ति, तथैव सर्वेषां प्राणिनां शरीरस्थेन विज्ञानेन पवित्राः सत्यो वाण्यः प्रचरन्ति, ये शास्त्राभ्याससत्यवचनादिभिर्वाचः पवित्रयन्ति, त एव शुद्धा जायन्ते॥९४॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! या अन्तर्हृदा मनसा पूयमाना धेनाः सरितो न सम्यक् स्रवन्ति, ता ये चैते घृतस्योर्मयः क्षिपणोरीषमाणा मृगा इवार्षन्ति, ताँश्च यूयं विजानीत॥९४॥