Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 93

99 Mantra
17/93
Devata- यज्ञपुरुषो देवता Rishi- वामदेव ऋषिः Chhand- निचृदार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
ए॒ताऽअ॑र्षन्ति॒ हृद्या॑त् समु॒द्राच्छ॒तव्र॑जा रि॒पुणा॒ नाव॒चक्षे॑। घृ॒तस्य॒ धारा॑ऽअ॒भि चा॑कशीमि हिर॒ण्ययो॑ वेत॒सो मध्य॑ऽआसाम्॥९३॥

ए॒ताः। अ॒र्ष॒न्ति॒। हृद्या॑त्। स॒मु॒द्रात्। श॒तव्र॑जा॒ इति॑ श॒तऽव्र॑जाः। रि॒पुणा॑। न। अ॒व॒चक्ष॒ इत्य॑ऽव॒चक्षे॑। घृ॒तस्य॑। धाराः॑। अ॒भि। चा॒क॒शी॒मि॒। हि॒र॒ण्ययः॑। वे॒त॒सः। मध्ये॑। आ॒सा॒म् ॥९३ ॥

Mantra without Swara
एताऽअर्षन्ति हृद्यात्समुद्राच्छतव्रजा रिपुणा नावचक्षे । घृतस्य धाराऽअभिचाकशीमि हिरण्ययो वेतसो मध्यऽआसाम् ॥

एताः। अर्षन्ति। हृद्यात्। समुद्रात्। शतव्रजा इति शतऽव्रजाः। रिपुणा। न। अवचक्ष इत्यऽवचक्षे। घृतस्य। धाराः। अभि। चाकशीमि। हिरण्ययः। वेतसः। मध्ये। आसाम्॥९३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(एताः) (अर्षन्ति) गच्छन्ति निस्सरन्ति (हृद्यात्) हृदये भवात् (समुद्रात्) अन्तरिक्षात् (शतव्रजाः) शतमसंख्याता व्रजा मार्गा यासां ताः (रिपुणा) शत्रुणा स्तेनेन। रिपुरिति स्तेननामसु पठितम्॥ (निघं॰३.२४) (न) निषेधे (अवचक्षे) अवख्यातव्याः (घृतस्य) आज्यस्य (धाराः) (अभि) (चाकशीमि) सर्वतोऽनुशास्मि (हिरण्ययः) तेजःस्वरूपः (वेतसः) कमनीयः (मध्ये) (आसाम्) वेदधर्मयुक्तवाणीनाम्॥९३॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यथोपदेशका विद्वांसो याः पवित्रा विज्ञानयुक्ता अनेकमार्गाः शत्रुभिरखण्ड्या घृतस्य प्रवाहोऽग्निमिव श्रोतॄन् प्रसादयन्ति, ता वाचः प्राप्नुवन्ति, तथा सर्वे मनुष्याः प्रयत्नेनैताः प्राप्नुयुः॥९३॥
Subject
पुनर्मनुष्यैः कीदृशी वाक् प्रयोज्येत्याह॥
Anvaya
या रिपुणा नावचक्षे शतव्रजा एता वाचो हृद्यात् समुद्रादर्षन्त्यासां मध्ये या अग्नौ घृतस्य धारा इव जनेषु पतिताः प्रकाशन्ते, ता हिरण्ययो वेतसोऽहमभिचाकशीमि॥९३॥