Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 88

99 Mantra
17/88
Devata- अग्निर्देवता Rishi- गृत्समद ऋषिः Chhand- निचृदार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
घृ॒तं मि॑मिक्षे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते श्रि॒तो घृ॒तम्व॑स्य॒ धाम॑। अ॒नु॒ष्व॒धमाव॑ह मा॒दय॑स्व॒ स्वाहा॑कृतं वृषभ वक्षि ह॒व्यम्॥८८॥

घृ॒तम्। मि॒मि॒क्षे॒। घृ॒तम्। अ॒स्य॒। योनिः॑। घृ॒ते। श्रि॒तः। घृ॒तम्। ऊँ॒ऽइत्यूँ॑। अ॒स्य॒ धाम॑। अ॒नु॒ष्व॒धम्। अ॒नु॒स्व॒धमित्य॑नुऽस्व॒धम्। आ। व॒ह॒। मा॒दय॑स्व॒। स्वाहा॑कृत॒मिति॒ स्वाहा॑ऽकृतम्। वृ॒ष॒भ॒। व॒क्षि॒। ह॒व्यम् ॥८८ ॥

Mantra without Swara
घृतम्मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्वस्य धाम । अनुष्वधमावह मादयस्व स्वाहाकृतँवृषभ वक्षि हव्यम् ॥

घृतम्। मिमिक्षे। घृतम्। अस्य। योनिः। घृते। श्रितः। घृतम्। ऊँऽइत्यूँ। अस्य धाम। अनुष्वधम्। अनुस्वधमित्यनुऽस्वधम्। आ। वह। मादयस्व। स्वाहाकृतमिति स्वाहाऽकृतम्। वृषभ। वक्षि। हव्यम्॥८८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(घृतम्) उदकम् (मिमिक्षे) सिञ्चितुमिच्छ (घृतम्) जलम् (अस्य) (योनिः) गृहम् (घृते) (श्रितः) (घृतम्) उदकम् (उ) वितर्के (अस्य) पावकस्य (धाम) अधिकरणम् (अनुष्वधम्) स्वधान्नस्यानुकूलम् (आ) (वह) प्रापय (मादयस्व) हर्षयस्व (स्वाहाकृतम्) वेदवाणीनिष्पादितम् (वृषभ) यो वर्षति तत्सम्बुद्धौ (वक्षि) कामयसे प्राप्नोषि वा (हव्यम्) होतुमादातुमर्हम्॥८८॥
Essence
यावानग्निर्जलेऽस्ति तावान् जलाधिकरण उच्यते, यथाज्येन वह्निर्वर्धते तथा जलेन सर्वे पदार्था वर्धन्ते। अन्नमनुकूलमाज्यं चानन्दकारि जायते, तस्मात् सर्वैरेतत्कमनीयम्॥८८॥
Subject
पुनर्मनुष्यैरग्निः क्व क्वान्वेषणीय इत्याह॥
Anvaya
हे समुद्रयायिन्! त्वं घृतं मिमिक्षे उ अस्याग्नेर्घृतं योनिरस्ति, यो घृते श्रितो घृतमस्य धाम तमग्निमनुष्वधमावह। हे वृषभ! त्वं यतः स्वाहाकृतं हव्यं वक्षि, तेनास्मान् मादयस्व॥८८॥