Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 87

99 Mantra
17/87
Devata- अग्निर्देवता Rishi- सप्तऋषय ऋषयः Chhand- आर्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
इ॒मꣳ स्तन॒मूर्ज॑स्वन्तं धया॒पां प्रपी॑नमग्ने सरि॒रस्य॒ मध्ये॑। उत्सं॑ जुषस्व॒ मधु॑मन्तमर्वन्त्समु॒द्रिय॒ꣳ सद॑न॒मावि॑शस्व॥८७॥

इ॒मम्। स्तन॑म्। ऊर्ज॑स्वन्तम्। ध॒य॒। अ॒पाम्। प्रपी॑न॒मिति॒ प्रऽपी॑नम्। अ॒ग्ने॒। स॒रि॒रस्य॑। मध्ये॑। उत्स॑म्। जु॒ष॒स्व॒। मधु॑मन्त॒मिति॒ मधु॑ऽमन्तम्। अ॒र्व॒न्। स॒मु॒द्रिय॑म्। सद॑नम्। आ। वि॒श॒स्व॒ ॥८७ ॥

Mantra without Swara
इमँ स्तनमूर्जस्वन्तन्धयापाम्प्रपीनमग्ने सरिरस्य मध्ये । उत्सञ्जुषस्व मधुमन्तमर्वन्त्समुद्रियँ सदनमाविशस्व ॥

इमम्। स्तनम्। ऊर्जस्वन्तम्। धय। अपाम्। प्रपीनमिति प्रऽपीनम्। अग्ने। सरिरस्य। मध्ये। उत्सम्। जुषस्व। मधुमन्तमिति मधुऽमन्तम्। अर्वन्। समुद्रियम्। सदनम्। आ। विशस्व॥८७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(इमम्) (स्तनम्) दुग्धाधारम् (ऊर्जस्वन्तम्) प्रशस्तबलकारकम् (धय) पिब (अपाम्) जलानाम् (प्रपीनम्) प्रकृष्टतया स्थूलम् (अग्ने) पावक इव वर्त्तमान (सरिरस्य) बहोः। सरिरमिति बहुनामसु पठितम्॥ (निघं॰३.१) (मध्ये) (उत्सम्) उन्दन्ति येन तं कूपम्। उत्समिति कूपनामसु पठितम्॥ (निघं॰३.२३) (जुषस्व) सेवस्व (मधुमन्तम्) प्रशस्तं मधु माधुर्यं विद्यते यस्मिँस्तम् (अर्वन्) अश्व इव वर्त्तयन् (समुद्रियम्) सागरे भवम् (सदनम्) सीदन्ति गच्छन्ति यत्तत् (आ) (विशस्व) अत्र व्यत्ययेनात्मनेपदम्॥८७॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यथा बालका वत्साश्च स्तनदुग्धं पीत्वा वर्द्धन्ते, यथा वाऽश्वः शीघ्रं धावति तथा मनुष्या युक्ताहारविहारेण वर्धमाना वेगेन गच्छन्तु, यथाऽद्भिः पूर्णे समुद्रे नौकायां स्थित्वा गच्छन्तः सुखेन पारावारे यान्ति, तथैव सुसाधनैर्व्यवहारस्य पारावारौ प्राप्नुवन्तु॥८७॥
Subject
पुनर्मनुष्यैः कथं वर्त्तितव्यमित्याह॥
Anvaya
हे अग्ने! पालक! त्वं प्रपीनं स्तनमिवेममूर्जस्वन्तमपां रसं धय, सरिरस्य मध्ये मधुमन्तमुत्सं जुषस्व। हे अर्वंस्त्वं समुद्रियं सदनमाविशस्व॥८७॥