Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 86

99 Mantra
17/86
Devata- मरुतो देवताः Rishi- सप्तऋषय ऋषयः Chhand- निचृच्छक्वरी Swara- धैवतः
Mantra with Swara
इन्द्रं॒ दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मानोऽभव॒न् यथेन्द्रं॒ दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मा॒नोऽभ॑वन्। ए॒वमि॒मं यज॑मानं॒ दैवी॑श्च॒ विशो॑ मानु॒षीश्चानु॑वर्त्मानो भवन्तु॥८६॥

इन्द्र॑म्। दैवीः॑। विशः॑। म॒रुतः॑। अनु॑वर्त्मान॒ इत्यनु॑ऽवर्त्मानः। अ॒भ॒व॒न्। यथा॑। इन्द्र॑म्। दैवीः॑। विशः॑। म॒रुतः॑। अ॒नु॑वर्त्मान॒ इत्यनु॑ऽवर्त्मानः। अ॒भ॒व॒न्। ए॒वम्। इ॒मम्। यज॑मानम्। दैवीः॑। च॒। विशः॑। मा॒नु॒षीः। च॒। अनु॑वर्त्मान॒ इत्यनु॑ऽवर्त्मानः। भ॒व॒न्तु॒ ॥८६ ॥

Mantra without Swara
इन्द्रन्दैवीर्विशो मरुतोनुवर्त्मानो भवन्यथेन्द्रन्दैवीर्विशो मरुतोनुवर्त्मानोभवन् । एवमिमँयजमानन्दैवीश्च विशो मानुषीश्चानुवर्त्मानो भवन्तु ॥

इन्द्रम्। दैवीः। विशः। मरुतः। अनुवर्त्मान इत्यनुऽवर्त्मानः। अभवन्। यथा। इन्द्रम्। दैवीः। विशः। मरुतः। अनुवर्त्मान इत्यनुऽवर्त्मानः। अभवन्। एवम्। इमम्। यजमानम्। दैवीः। च। विशः। मानुषीः। च। अनुवर्त्मान इत्यनुऽवर्त्मानः। भवन्तु॥८६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(इन्द्रम्) परमैश्वर्ययुक्तं धार्मिकं राजानम् (दैवीः) देवानां विदुषामिमाः (विशः) प्रजाः (मरुतः) ऋत्विजो विद्वांसः (अनुवर्त्मानः) अनुकूलो वर्त्मा मार्गो येषां ते (अभवन्) भवन्तु (यथा) येन प्रकारेण (इन्द्रम्) अखिलैश्वर्यं परमेश्वरम् (दैवीः) (विशः) (मरुतः) प्राणा इव प्रियाः (अनुवर्त्मानः) अनुकूलाचरणाः (अभवन्) (एवम्) (इमम्) (यजमानम्) विद्यासुशिक्षाभ्यां सुखदातारम् (दैवीः) (च) (विशः) (मानुषीः) मानुषाणामविदुषामिमाः (च) (अनुवर्त्मानः) (भवन्तु)॥८६॥
Essence
अत्रोपमावाचकलुप्तोपमालङ्कारौ। यथा प्रजा राजादीनां राजपुरुषाणामनुकूला वर्त्तेरंस्तथैतेऽपि प्रजानुकूला वर्त्तन्ताम्। यथाऽध्यापकोपदेशकाः सर्वेषां सुखाय प्रयतेरंस्तथैव सर्व एतेषां प्रयतन्ताम्॥८६॥
Subject
पुना राजप्रजाः कथं परस्परं वर्तेरन्नित्याह॥
Anvaya
हे राजँस्त्वं तथा वर्त्तस्व यथेमा दैवीर्विशो मरुतश्चेन्द्रमनुवर्त्मानोऽभवन्, यथा मरुतो दैवीर्दिव्या विशश्चेन्द्रमनुवर्त्मानोऽभवन्। एवं दैवीश्च विशो मानुषीश्च विश इमं यजमानमनुवर्त्मानो भवन्तु॥८६॥