Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 85

99 Mantra
17/85
Devata- चातुर्मास्या मरुतो देवता Rishi- सप्तऋषय ऋषयः Chhand- स्वराडार्षी गायत्री Swara- षड्जः
Mantra with Swara
स्वत॑वाँश्च प्रघा॒सी च॑ सान्तप॒नश्च॑ गृहमे॒धी च॑। क्री॒डी च॑ शा॒की चो॑ज्जे॒षी॥८५॥

स्वत॑वा॒निति॒ स्वऽत॑वान्। च॒। प्र॒घा॒सीति॑ प्रऽघा॒सी। च॒। सा॒न्त॒प॒न इति॑ साम्ऽतप॒नः। च॒। गृ॒ह॒मे॒धीति॑ गृ॒ह॒मे॒धी। च॒। क्री॒डी। च॒। शा॒की। च॒। उ॒ज्जे॒षीत्यु॑त्ऽजे॒षी ॥८५ ॥

Mantra without Swara
स्वतवाँश्च प्रघासी च सान्तपनश्च गृहमेधी च । क्रीडी च शाकी चोज्जेषी ॥

स्वतवानिति स्वऽतवान्। च। प्रघासीति प्रऽघासी। च। सान्तपन इति साम्ऽतपनः। च। गृहमेधीति गृहमेधी। च। क्रीडी। च। शाकी। च। उज्जेषीत्युत्ऽजेषी॥८५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(स्वतवान्) यः स्वान् तौति वर्द्धयति सः। अत्र तू धातोरौणादिक आनिः प्रत्ययः (च) (प्रघासी) बहवः प्रकृष्टा घासा भोज्यानि विद्यन्ते यस्य सः (च) (सान्तपनः) सम्यक् शत्रून् तापयति तस्यायम् (च) (गृहमेधी) प्रशस्तो गृहे मेधः सङ्गमोऽस्यास्तीति सः (च) (क्रीडी) (च) अवश्यं क्रीडितुं शीलः (शाकी) अवश्यं शक्तुं शीलः (च) (उज्जेषी) उत्कृष्टतया जेतुं शीलः॥८५॥
Essence
यो बहुबलान्नसामर्थ्यो गृहस्थो भवति, स सर्वत्र विजयमाप्नोति॥८५॥
Subject
पुनस्स विद्वान् कीदृशो भवेदित्याह॥
Anvaya
यः स्वतवांश्च प्रघासी च सान्तपनश्च गृहमेधी च क्रीडी च शाकी च भवेत्, स उज्जेषी स्यात्॥८५॥