Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 84

99 Mantra
17/84
Devata- मरुतो देवताः Rishi- सप्तऋषय ऋषयः Chhand- निचृदार्षी जगती Swara- निषादः
Mantra with Swara
ई॒दृक्षा॑सऽएता॒दृक्षा॑सऽऊ॒ षु णः॑ स॒दृक्षा॑सः॒ प्रति॑सदृक्षास॒ऽएत॑न। मि॒तास॑श्च॒ सम्मि॑तासो नोऽअ॒द्य सभ॑रसो मरुतो य॒ज्ञेऽअ॒स्मिन्॥८४॥

ई॒दृक्षा॑सः। ए॒ता॒दृक्षा॑सः। ऊँ॒ऽइत्यूँ॑। सु। नः॒। स॒दृक्षा॑स॒ इति॑ स॒ऽदृक्षा॑सः। प्रति॑सदृक्षास॒ इति॒ प्रति॑ऽसदृक्षासः। आ। इ॒त॒न॒। मि॒तासः॑। च॒। सम्मि॑तास॒ इति॒ सम्ऽमि॑तासः। नः॒। अ॒द्य। सभ॑रस॒ इति॒ सऽभ॑रसः। म॒रु॒तः॒। य॒ज्ञे। अ॒स्मिन् ॥८४ ॥

Mantra without Swara
ईदृक्षास एतादृक्षासऽऊ षु णः सदृक्षासः प्रतिसदृक्षासऽएतन । मितासश्च सम्मितासो नोऽअद्य सभरसो मरुतो यज्ञे अस्मिन् ॥

ईदृक्षासः। एतादृक्षासः। ऊँऽइत्यूँ। सु। नः। सदृक्षास इति सऽदृक्षासः। प्रतिसदृक्षास इति प्रतिऽसदृक्षासः। आ। इतन। मितासः। च। सम्मितास इति सम्ऽमितासः। नः। अद्य। सभरस इति सऽभरसः। मरुतः। यज्ञे। अस्मिन्॥८४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(ईदृक्षासः) एतल्लक्षणसहिताः (एतादृक्षासः) एतैः पूर्वोक्तैस्सदृशाः (उ) वितर्के (सु) सुष्ठु (नः) अस्मान् (सदृक्षासः) पक्षपातं विहाय समानदृष्टयः (प्रतिसदृक्षासः) आप्तसदृशाः (आ) (इतन) समन्तात् प्राप्नुत (मितासः) परिमितविज्ञानाः (च) (सम्मितासः) तुलावत् सत्यविवेचकाः (नः) अस्मान् (अद्य) (सभरसः) स्वसमानपोषकाः (मरुतः) ऋत्विजो विद्वांसः (यज्ञे) संगन्तव्ये व्यवहारे (अस्मिन्)॥८४॥
Essence
यदा धार्मिका विद्वांसः क्वापि मिलेयुर्यानुपागच्छेयुरध्यापयेयुः सुशिक्षेरँश्च तदेमे सर्वैः सत्कर्त्तव्याः॥८४॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मरुतो विद्वांसो य ईदृक्षास एतादृक्षासस्सदृक्षासः प्रतिसदृक्षासो नोऽस्मान् स्वेतन उ मितासः सम्मितासश्चास्मिन् यज्ञे सभरसो भवताऽद्य नो रक्षत, तान् वयमपि सततं सत्कुर्याम॥८४॥