Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 80

99 Mantra
17/80
Devata- मरुतो देवताः Rishi- सप्तऋषय ऋषयः Chhand- आर्ष्युष्णिक् Swara- ऋषभः
Mantra with Swara
शु॒क्रज्यो॑तिश्च चि॒त्रज्यो॑तिश्च स॒त्यज्योति॑श्च॒ ज्योति॑ष्माँश्च। शु॒क्रश्च॑ऽऋत॒पाश्चात्य॑ꣳहाः॥८०॥

शु॒क्रज्यो॑ति॒रिति॑ शु॒क्रऽज्यो॑तिः। च॒। चि॒त्रज्यो॑ति॒रिति॑ चि॒त्रऽज्यो॑तिः। च॒। स॒त्यज्यो॑ति॒रिति॑ स॒त्यऽज्यो॑तिः। च॒। ज्योति॑ष्मान्। च॒। शु॒क्रः। च॒। ऋ॒त॒पा इत्यृ॑त॒ऽपाः। च॒। अत्य॑ꣳहा॒ इत्यति॑ऽअꣳहाः ॥८० ॥

Mantra without Swara
शुक्रज्योतिश्च चित्रज्योतिश्च सत्यज्योतिश्च ज्योतिष्माँश्च । शुक्रश्चऽऋतपाश्चात्यँहाः ॥

शुक्रज्योतिरिति शुक्रऽज्योतिः। च। चित्रज्योतिरिति चित्रऽज्योतिः। च। सत्यज्योतिरिति सत्यऽज्योतिः। च। ज्योतिष्मान्। च। शुक्रः। च। ऋतपा इत्यृतऽपाः। च। अत्यꣳहा इत्यतिऽअꣳहाः॥८०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(शुक्रज्योतिः) शुक्रं शुद्धं ज्योतिर्यस्य सः (च) (चित्रज्योतिः) चित्रमद्भुतं ज्योतिर्यस्य सः (च) (सत्यज्योतिः) सत्यमविनाशि ज्योतिः प्रकाशो यस्य सः (च) (ज्योतिष्मान्) बहूनि ज्योतींषि प्रकाशा विद्यन्ते यस्य सः (च) (शुक्रः) शीघ्रकर्त्ता शुद्धस्वरूपो वा (च) (ऋतपाः) य ऋतं सत्यं पाति (च) (अत्यंहाः) अतिक्रान्तमंहो दुष्कृतं येन सः॥८०॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यथेह विद्युत्सूर्यादीन् प्रभाकरान् शुद्धिकरान् पदार्थान् निर्मायेश्वरेण जगच्छोध्यते, तथैव शुचिसत्यविद्योपदेशक्रियाभिर्मनुष्यादयो विद्वद्भिः शोधनीयाः। अत्रोनेकेषां चकाराणां पाठात् सर्वेषामुपरि प्रीत्यादयोऽपि विधेयाः॥८०॥
Subject
अथेश्वरः कीदृशोऽस्तीत्याह॥
Anvaya
हे मनुष्याः! यथा शुक्रज्योतिश्च चित्रज्योतिश्च सत्यज्योतिश्च ज्योतिष्माँश्च शुक्रश्चात्यंहा ऋतपाश्चेश्वरोऽस्ति, तथा यूयं भवत॥८०॥