Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 78

99 Mantra
17/78
Devata- विश्वकर्मा देवता Rishi- वसिष्ठ ऋषिः Chhand- विराडतिजगती Swara- निषादः
Mantra with Swara
चित्तिं॑ जुहोमि॒ मन॑सा घृ॒तेन॒ यथा॑ दे॒वाऽइ॒हागम॑न् वी॒तिहो॑त्राऽऋता॒वृधः॑। पत्ये॒ विश्व॑स्य॒ भूम॑नो जु॒होमि॑ वि॒श्वक॑र्मणे वि॒श्वाहादा॑भ्यꣳ ह॒विः॥७८॥

चित्ति॑म्। जु॒हो॒मि॒। मन॑सा। घृ॒तेन॑। यथा॑। दे॒वाः। इ॒ह। आ॒गम॒न्नित्या॒गम॑न्। वी॒तिहो॑त्रा॒ इति॑ वी॒तिऽहो॑त्रा। ऋ॒ता॒वृधः॑। ऋ॒त॒वृध॒ इत्यृ॑त॒ऽवृधः॑। पत्ये॑। विश्व॑स्य। भूम॑नः। जु॒होमि॑। वि॒श्वक॑र्मण॒ इति॑ वि॒श्वऽक॑र्मणे। वि॒श्वाहा॑। अदा॑भ्यम्। ह॒विः ॥७८ ॥

Mantra without Swara
चित्तिञ्जुहोमि मनसा घृतेन यथा देवाऽइहागमन्वीतिहोत्राऽऋतावृधः । पत्ये विश्वस्य भूमनो जुहोमि विश्वकर्मणे विश्वाहादाभ्यँ हवि ॥

चित्तिम्। जुहोमि। मनसा। घृतेन। यथा। देवाः। इह। आगमन्नित्यागमन्। वीतिहोत्रा इति वीतिऽहोत्रा। ऋतावृधः। ऋतवृध इत्यृतऽवृधः। पत्ये। विश्वस्य। भूमनः। जुहोमि। विश्वकर्मण इति विश्वऽकर्मणे। विश्वाहा। अदाभ्यम्। हविः॥७८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(चित्तिम्) चिन्वन्ति यया ताम् (जुहोमि) गृह्णामि (मनसा) विज्ञानेन (घृतेन) आज्येन (यथा) (देवाः) कामयमाना विद्वांसः (इह) (आगमन्) आगच्छन्ति (वीतिहोत्राः) वीतिः सर्वतः प्रकाशितो होत्रा यज्ञो येषां ते (ऋतावृधः) ये ऋतेन सत्येन वर्धन्ते। अत्र अन्येषामपि॰ [अष्टा॰६.३.१३७] इति पूर्वपदस्य दीर्घः। (पत्ये) पालकाय (विश्वस्य) समग्रस्य जगतः (भूमनः) बहुरूपस्य (जुहोमि) ददामि (विश्वकर्मणे) विश्वं कर्म क्रियमाणं कृतं येन तस्मै (विश्वाहा) सर्वाणि दिनानि (अदाभ्यम्) अहिंसनीयम् (हविः) होतव्यं शुद्धं सुखकरं द्रव्यम्॥७८॥
Essence
अत्रोपमालङ्कारः। यथा काष्ठचितोऽग्निराज्येन वर्द्धते, तथा विज्ञानेनाहं वर्द्धेयम्, यथेश्वरोपासका विद्वांसश्च जगतः कल्याणाय प्रयतन्ते, तथाहमपि प्रयतेय॥७८॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! यथाऽहं मनसा घृतेन चित्तिं जुहोमि, यथेह वीतिहोत्रा ऋतावृधो देवा भूमनो विश्वस्य विश्वकर्मणे पत्ये जगदीश्वरायादाभ्यं हविर्विश्वाहा होतुमागमन्नहं हविर्जुहोमि, तथा यूयमप्याचरत॥७८॥