Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 77

99 Mantra
17/77
Devata- अग्निर्देवता Rishi- वसिष्ठ ऋषिः Chhand- आर्षी गायत्री Swara- षड्जः
Mantra with Swara
अग्ने॒ तम॒द्याश्व॒न्न स्तोमैः॒ क्रतु॒न्न भ॒द्रꣳ हृ॑दि॒स्पृश॑म्। ऋ॒ध्यामा॑ त॒ऽओहैः॑॥७७॥

अग्ने॑। तम्। अ॒द्य। अश्व॑म्। न। स्तोमैः॑। क्रतु॑म्। न। भ॒द्रम्। हृ॒दि॒ऽस्पृश॑म्। ऋ॒ध्याम॑। ते॒। ओहैः॑ ॥७७ ॥

Mantra without Swara
अग्ने तमद्याश्वन्न स्तोमैः क्रतुन्न भद्रँ हृदिस्पृशम् । ऋध्यामा तऽओहैः ॥

अग्ने। तम्। अद्य। अश्वम्। न। स्तोमैः। क्रतुम्। न। भद्रम्। हृदिऽस्पृशम्। ऋध्याम। ते। ओहैः॥७७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अग्ने) विद्वन् (तम्) पूर्वमन्त्रोक्तम् (अद्य) (अश्वम्) तुरङ्गम् (न) इव स्तोमैः स्तुतिभिः (क्रतुम्) प्रज्ञानम् (न) इव (भद्रम्) भजनीयं कल्याणकरम् (हृदिस्पृशम्) यो हृदये स्पृशति तम् (ऋध्याम) वर्धेम। अत्र अन्येषामपि॰ [अष्टा॰६.३.१३७] इति दीर्घः (ते) तव (ओहैः) रक्षणादिभिः॥७७॥
Essence
अत्रोपमालङ्कारः। यथा शरीरस्थेन विद्युदादिना वृद्धिवेगौ प्रज्ञासुखानि च वर्धेरँस्तथा विद्वच्छिक्षारक्षादिभिर्मनुष्यादयो वर्द्धन्ते॥७७॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे अग्ने! विद्युत्सदृशपराक्रमिन्नश्वं न क्रतुं न भद्रं हृदिस्पृशं तं त्वां स्तोमैरद्य प्राप्य ते तवौहैर्वयं सततमृध्याम॥७७॥