Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 76

99 Mantra
17/76
Devata- अग्निर्देवता Rishi- वसिष्ठ ऋषिः Chhand- आर्ष्युष्णिक् Swara- ऋषभः
Mantra with Swara
प्रेद्धो॑ऽअग्ने दीदिहि पु॒रो नोऽज॑स्रया सू॒र्म्या यविष्ठ। त्वा शश्व॑न्त॒ऽउप॑यन्ति॒ वाजाः॑॥७६॥

प्रेद्ध॒ इति॒ प्रऽइ॑द्धः। अ॒ग्ने॒। दी॒दि॒हि॒। पु॒रः। नः॒। अज॑स्रया। सू॒र्म्या᳖। य॒वि॒ष्ठ॒। त्वाम्। शश्व॑न्तः। उप॑। य॒न्ति॒। वाजाः॑ ॥७६ ॥

Mantra without Swara
प्रेद्धोऽअग्ने दीदिहि पुरो नो जस्रया सूर्म्या यविष्ठ । त्वाँ शश्वन्तऽउप यन्ति वाजाः ॥

प्रेद्ध इति प्रऽइद्धः। अग्ने। दीदिहि। पुरः। नः। अजस्रया। सूर्म्या। यविष्ठ। त्वाम्। शश्वन्तः। उप। यन्ति। वाजाः॥७६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(प्रेद्धः) प्रकृष्टतया प्रदीप्तः (अग्ने) अग्निरिव दुःखदाहकः योगिन् (दीदिहि) कामयस्व (पुरः) प्रथमम् (नः) अस्मान् (अजस्रया) अनुपक्षीणया (सूर्म्या) ऐश्वर्येण (यविष्ठ) अतिशयेन युवन् (त्वाम्) (शश्वन्तः) निरन्तरं वर्त्तमानाः (उप, यन्ति) प्राप्नुवन्तु (वाजाः) विज्ञानवन्तो जनाः॥७६॥
Essence
यदा मनुष्याः शुद्धात्मानो भूत्वाऽन्यानुपकुर्वन्ति, तदा तेऽपि सर्वत्रोपकृता भवन्ति॥७६॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे यविष्ठाग्ने! त्वं पुरः प्रेद्धः सन्नजस्रया सूर्म्या नोऽस्मान् दीदिहि शश्वन्तो वाजास्त्वामुपयन्ति॥७६॥