Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 74

99 Mantra
17/74
Devata- सविता देवता Rishi- कण्व ऋषिः Chhand- निचृदार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
ता स॑वि॒तुर्वरे॑ण्यस्य चि॒त्रामाहं वृ॑णे सुम॒तिं वि॒श्वज॑न्याम्। याम॑स्य॒ कण्वो॒ अदु॑ह॒त् प्रपी॑ना स॒हस्र॑धारां॒ पय॑सा म॒हीं गाम्॥७४॥

ताम्। स॒वि॒तुः। वरे॑ण्यस्य। चि॒त्राम्। आ। अ॒हम्। वृ॒णे॒। सु॒म॒तिमिति॑ सुऽम॒तिम्। वि॒श्वज॑न्याम्। याम्। अ॒स्य॒। कण्वः॑। अदु॑हत्। प्रपी॑ना॒मिति॒ प्रऽपी॑नाम्। स॒हस्र॑धारा॒मिति॑ स॒हस्र॑ऽधाराम्। पय॑सा। म॒हीम्। गाम् ॥७४ ॥

Mantra without Swara
तँ सवितुर्वरेण्यस्य चित्रामाहँवृणे सुमतिँविश्वजन्याम् । यामस्य कण्वोऽअदुहत्प्रपीनाँ सहस्रधाराम्पयसा महीङ्गाम् ॥

ताम्। सवितुः। वरेण्यस्य। चित्राम्। आ। अहम्। वृणे। सुमतिमिति सुऽमतिम्। विश्वजन्याम्। याम्। अस्य। कण्वः। अदुहत्। प्रपीनामिति प्रऽपीनाम्। सहस्रधारामिति सहस्रऽधाराम्। पयसा। महीम्। गाम्॥७४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(ताम्) वक्ष्यमाणाम् (सवितुः) योगैश्वर्य्यसंप्रदस्येश्वरस्य (वरेण्यस्य) वरितुमर्हस्य (चित्राम्) अद्भुतविषयाम् (आ) (अहम्) (वृणे) स्वीकुर्वे (सुमतिम्) शोभनां यथाविषयां प्रज्ञाम् (विश्वजन्याम्) या विश्वमखिलं जगज्जनयति प्रकटयति ताम् (याम्) (अस्य) (कण्वः) मेधावी (अदुहत्) परिपूरयति (प्रपीनाम्) प्रवृद्धाम् (सहस्रधाराम्) सहस्रमसंख्यानर्थान् धरति तां सर्वज्ञानप्रदाम् (पयसा) अन्नादिना (महीम्) महतीम् (गाम्) वाचम्। गौरिति वाङ्नामसु पठितम्॥ (निघं॰१.११)॥७४॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यथा मेधावी जगदीश्वरस्य विद्यां प्राप्यैधते तथैवैतां लब्ध्वाऽन्येनापि विद्यायोगवृद्ध्यै भवितव्यम्॥७४॥
Subject
अथ क ईश्वरं प्राप्तुं शक्नोतीत्याह॥
Anvaya
यथा कण्वोऽस्य वरेण्यस्य सवितुरीश्वरस्य यां चित्रां विश्वजन्यां प्रपीनां सहस्रधारां सुमतिं पयसा महीं गां चादुहत्, तथा तामहमावृणे॥७४॥