Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 73

99 Mantra
17/73
Devata- अग्निर्देवता Rishi- कुत्स ऋषिः Chhand- आर्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
आ॒जुह्वा॑नः सु॒प्रती॑कः पु॒रस्ता॒दग्ने॒ स्वं योनि॒मासी॑द साधु॒या। अ॒स्मिन्त्स॒धस्थे॒ऽअध्युत्त॑रस्मि॒न् विश्वे॑ देवा॒ यज॑मानश्च सीदत॥७३॥

आ॒जुह्वा॑न॒ इत्या॒जुऽह्वा॑नः। सु॒प्रती॑क॒ इति॑ सु॒ऽप्रती॑कः। पु॒रस्ता॑त्। अग्ने॑। स्वम्। योनि॑म्। आ। सी॒द॒। सा॒धु॒येति॑ साधु॒ऽया। अ॒स्मिन्। स॒धस्थे॑। अधि॑। उत्त॑रस्मिन्। विश्वे॑। दे॒वाः॒। यज॑मानः। च॒। सी॒द॒त॒ ॥७३ ॥

Mantra without Swara
आजुह्वानः सुप्रतीकः पुरस्तादग्ने स्वँयोनिमा सीद साधुया । अस्मिन्त्सस्हस्थेऽअध्युत्तरस्मिन्विश्वे देवा यजमानश्च सीदत ॥

आजुह्वान इत्याजुऽह्वानः। सुप्रतीक इति सुऽप्रतीकः। पुरस्तात्। अग्ने। स्वम्। योनिम्। आ। सीद। साधुयेति साधुऽया। अस्मिन्। सधस्थे। अधि। उत्तरस्मिन्। विश्वे। देवाः। यजमानः। च। सीदत॥७३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(आजुह्वानः) सत्कारेणाहूतः (सुप्रतीकः) प्राप्तशुभगुणः (पुरस्तात्) प्रथमतः (अग्ने) योगाभ्यासेन प्रकाशितात्मन् (स्वम्) स्वकीयम् (योनिम्) परमात्माख्यं गृहम् (आ) (सीद) समन्तात् स्थिरो भव (साधुया) श्रेष्ठैः कर्मभिः (अस्मिन्) (सधस्थे) सहस्थाने (अधि) उपरिभावे (उत्तरस्मिन्) (विश्वे) सर्वे (देवाः) दिव्यात्मानो योगिनः (यजमानः) योगप्रद आचार्यः (च) (सीदत)॥७३॥
Essence
ये साधूनि कर्माणि कृत्वा कृतयोगाभ्यासस्य विदुषः सङ्गप्रीतिभ्यां परस्परं संवादं कुर्वन्ति, ते सर्वाधिष्ठानमीशं प्राप्य सिद्धा जायन्ते॥७३॥
Subject
पुनर्विद्वांसः कीदृशाः स्युरित्याह॥
Anvaya
हे अग्ने! पुरस्तादाजुह्वानः सुप्रतीको यजमानस्त्वं साधुयास्मिन् सधस्थे स्वं योनिमासीद। हे विश्वे देवाः! यूयं साधुयोत्तरस्मिन् सधस्थे चाधि सीदत॥७३॥