Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 70

99 Mantra
17/70
Devata- अग्निर्देवता Rishi- कुत्स ऋषिः Chhand- आर्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेक॑ꣳ समी॒ची। द्यावा॒क्षामा॑ रु॒क्मोऽअ॒न्तर्विभा॑ति दे॒वाऽअ॒ग्निं॑ धा॑रयन् द्रविणो॒दाः॥७०॥

नक्तो॒षासा॑। नक्तो॒षसेति॒ नक्तो॒षसा॑। सम॑न॒सेति॒ सऽम॑नसा। विरू॑पे॒ इति॒ विऽरू॑पे। धा॒पये॑ते॒ इति॑ धा॒पये॑ते। शिशु॑म्। एक॑म्। स॒मी॒ची इति॑ सम्ऽई॒ची। द्यावा॒क्षामा॑। रु॒क्मः। अ॒न्तः। वि। भा॒ति॒। दे॒वाः। अ॒ग्निम्। धा॒र॒य॒न्। द्र॒वि॒णो॒दा इति॑ द्रविणः॒ऽदाः ॥७० ॥

Mantra without Swara
नक्तोषासा समनसा विरूपे धापयेते शिशुमेकँ समीची । द्यावाक्षामा रुक्मोऽअन्तर्विभाति देवाऽअग्निं धारयन्द्रविणोदाः ॥

नक्तोषासा। नक्तोषसेति नक्तोषसा। समनसेति सऽमनसा। विरूपे इति विऽरूपे। धापयेते इति धापयेते। शिशुम्। एकम्। समीची इति सम्ऽईची। द्यावाक्षामा। रुक्मः। अन्तः। वि। भाति। देवाः। अग्निम्। धारयन्। द्रविणोदा इति द्रविणःऽदाः॥७०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(नक्तोषासा) रात्र्युषसाविव (समनसा) समानं मनो विज्ञानं ययोस्ते (विरूपे) विरुद्धस्वरूपे (धापयेते) पाययतः (शिशुम्) बालकमिव वर्त्तमानं जगत् (एकम्) असहायम् (समीची) ये एकीभावमिच्छन्तस्ते (द्यावाक्षामा) (रुक्मः) देदीप्यमानोऽग्निः (अन्तः) मध्ये (वि, भाति) विशेषेण प्रकाशते (देवाः) विद्वांसः (अग्निम्) (धारयन्) अधारयन्। अत्राडभावः (द्रविणोदाः) द्रव्यप्रदातारः॥७०॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैर्जगति यथा रात्र्युषसौ विरुद्धै रूपैर्वर्त्तेते, यथा च विद्युत् सर्वपदार्थेषु व्याप्ता, यथा वा द्यावाभूमी अतिसहनशीले वर्त्तेते, तद्वत् विवेचकैः शुभगुणेषु व्यापकैर्भूत्वा पुत्रवज्जगत्पालनीयम्॥७०॥
Subject
पुनर्मनुष्यैः कथं वर्त्तितव्यमित्याह॥
Anvaya
हे मनुष्याः! यूयं यथा समनसा समीची विरूपे मातृधात्र्यौ वैकं शिशुमिव नक्तोषासा जगद्धापयेते, यथा वा द्यावाक्षामान्तो रुक्मो विभाति, द्रविणोदा देवा तमग्निं धारयँस्तथा वर्त्तध्वम्॥७०॥