Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 7

99 Mantra
17/7
Devata- अग्निर्देवता Rishi- मेधातिथिर्ऋषिः Chhand- आर्षी बृहती Swara- मध्यमः
Mantra with Swara
अ॒पामि॒दं न्यय॑नꣳ समु॒द्रस्य॑ नि॒वेश॑नम्। अ॒न्याँस्ते॑ऽअ॒स्मत्त॑पन्तु हे॒तयः॑ पाव॒कोऽअ॒स्मभ्य॑ꣳ शि॒वो भ॑व॥७॥

अ॒पाम्। इ॒दम्। न्यय॑न॒मिति॑ नि॒ऽअय॑नम्। स॒मु॒द्रस्य॑। नि॒वेश॑न॒मिति॑ नि॒ऽवेश॑नम्। अ॒न्यान्। ते॒। अ॒स्मत्। त॒प॒न्तु॒। हे॒तयः॑। पा॒व॒कः। अ॒स्मभ्य॑म्। शि॒वः। भ॒व॒ ॥७ ॥

Mantra without Swara
अपामिदन्न्ययनँ समुद्रस्य निवेशनम् अन्याँस्तेऽअस्मत्तपन्तु हेतयः पावकोऽअस्मभ्यँ शिवो भव ॥

अपाम्। इदम्। न्ययनमिति निऽअयनम्। समुद्रस्य। निवेशनमिति निऽवेशनम्। अन्यान्। ते। अस्मत्। तपन्तु। हेतयः। पावकः। अस्मभ्यम्। शिवः। भव॥७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अपाम्) जलानां प्राणानां वा (इदम्) अन्तरिक्षम् (न्ययनम्) निश्चितमयनं स्थानम् (समुद्रस्य) सागरस्य (निवेशनम्) निविशन्ति यस्मिंस्तत् (अन्यान्) (ते) तव (अस्मत्) अस्माकं सकाशात् (तपन्तु) दुःखयन्तु (हेतयः) वज्रा वृद्धयो वा (पावकः) पवित्रकारी (अस्मभ्यम्) (शिवः) सुखप्रदः (भव)॥७॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। मनुष्या यथाऽपामाधारः सागरः समुद्रस्याधिष्ठानं भूमिर्भूमेरधिष्ठानमन्तरिक्षं तथा गार्हपत्यपदार्थानामाधारं गृहं निर्माय मङ्गलमाचर्य श्रेष्ठपालनं दस्युताडनञ्च कुर्वन्तु॥७॥
Subject
गृहस्थेन किं कार्यमित्याह॥
Anvaya
हे विद्वन्! यदिदमपां न्ययनमस्ति, तस्य समुद्रस्य निवेशनमिव गृहाश्रमं प्राप्य पावकः संस्त्वमस्मभ्यं शिवो भव, ते हेतयोऽस्मदन्यांस्तपन्तु॥७॥