Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 69

99 Mantra
17/69
Devata- अग्निर्देवता Rishi- विधृतिर्ऋषिः Chhand- भुरिगार्षी पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
अग्ने॒ प्रेहि॑ प्रथ॒मो दे॑वय॒तां चक्षु॑र्दे॒वाना॑मु॒त मर्त्या॑नाम्। इय॑क्षमाणा॒ भृगु॑भिः स॒जोषाः॒ स्वर्य्यन्तु॒ यज॑मानाः स्व॒स्ति॥६९॥

अग्ने॑। प्र। इ॒हि॒। प्र॒थ॒मः। दे॒व॒य॒तामिति॑ देवऽय॒ताम्। चक्षुः॑। दे॒वाना॑म्। उ॒त। मर्त्या॑नाम्। इय॑क्षमाणाः। भृगु॑भि॒रिति॒ भृगु॒॑ऽभिः। स॒जोषा॒ इति॑ स॒ऽजोषाः॑। स्वः॑। य॒न्तु॒। यज॑मानाः स्व॒स्ति ॥६९ ॥

Mantra without Swara
अग्ने प्रेहि प्रथमो देवयताञ्चक्षुर्देवानामुत मर्त्यानाम् । इयक्षमाणा भृगुभिः सजोषाः स्वर्यन्तु यजमानाः स्वस्ति ॥

अग्ने। प्र। इहि। प्रथमः। देवयतामिति देवऽयताम्। चक्षुः। देवानाम्। उत। मर्त्यानाम्। इयक्षमाणाः। भृगुभिरिति भृगुऽभिः। सजोषा इति सऽजोषाः। स्वः। यन्तु। यजमानाः स्वस्ति॥६९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अग्ने) विद्वन् (प्र) (इहि) प्राप्नुहि (प्रथमः) आदिमः (देवयताम्) कामयमानानाम् (चक्षुः) दर्शकम् (देवानाम्) विदुषाम् (उत) अपि (मर्त्यानाम्) अविदुषाम् (इयक्षमाणाः) यज्ञं चिकीर्षमाणाः (भृगुभिः) परिपक्वविज्ञानैर्विपश्चिद्भिः (सजोषाः) समानप्रीतिसेवनाः (स्वः) सुखम् (यन्तु) प्राप्नुवन्तु (यजमानाः) सर्वेभ्यः सुखदातारः (स्वस्ति) कल्याणम्॥६९॥
Essence
हे मनुष्याः! विद्वद्भिरविद्वद्भिश्च सह प्रीत्योपदेशेन यूयं सुखं प्राप्नुत॥६९॥
Subject
पुनर्विद्वद्व्यवहार उपदिश्यते॥
Anvaya
हे अग्ने! देवयतां मध्ये प्रथमः पूर्वं प्रेहि, यतो देवानामुत मर्त्यानां त्वं चक्षुरसि, यथेयक्षमाणाः सजोषा यजमाना भृगुभिः सह स्वस्ति स्वर्यन्तु, तथा त्वमपि भव॥६९॥