Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 68

99 Mantra
17/68
Devata- अग्निर्देवता Rishi- विधृतिर्ऋषिः Chhand- निचृदार्ष्यनुस्टुप् Swara- गान्धारः
Mantra with Swara
स्व॒र्यन्तो॒ नापे॑क्षन्त॒ऽआ द्या रो॑हन्ति॒ रोद॑सी। य॒ज्ञं ये वि॒श्वतो॑धार॒ꣳ सुवि॑द्वासो वितेनि॒रे॥६८॥

स्वः॑। यन्तः॑। न। अप॑। ई॒क्ष॒न्ते॒। आ। द्याम्। रो॒ह॒न्ति॒। रोद॑सी॒ इति॒ रोद॑सी। य॒ज्ञम्। ये। वि॒श्वतो॑धार॒मिति॑ वि॒श्वतः॑ऽधारम्। सुवि॑द्वास॒ इति॒ सुवि॑द्वासः। वि॒ते॒नि॒र इति॑ विऽतेनि॒रे ॥६८ ॥

Mantra without Swara
स्वर्यन्तो नापेक्षन्त आ द्याँ रोहन्ति रोदसी । यज्ञँये विश्वतोधारँ सुविद्वाँसो वितेनिरे ॥

स्वः। यन्तः। न। अप। ईक्षन्ते। आ। द्याम्। रोहन्ति। रोदसी इति रोदसी। यज्ञम्। ये। विश्वतोधारमिति विश्वतःऽधारम्। सुविद्वास इति सुविद्वासः। वितेनिर इति विऽतेनिरे॥६८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(स्वः) सुखम् (यन्तः) उपयन्तः (न) इव (अप) (ईक्षन्ते) समालोकन्ते (आ) समन्तात् (द्याम्) प्रकाशमयी योगविद्याम् (रोहन्ति) (रोदसी) द्यावापृथिव्यौ (यज्ञम्) संगन्तव्यम् (ये) (विश्वतोधारम्) विश्वतः सर्वतो धाराः सुशिक्षिता वाचो यस्मिंस्तम् (सुविद्वांसः) शोभनाश्च ते योगिनः (वितेनिरे) विस्तृतं कुर्वन्ति॥६८॥
Essence
अत्रोपमालङ्कारः। यथा सारथिरश्वान् सुशिक्ष्याभीष्टे मार्गे चालयित्वा सुखेनाभीष्टं स्थानं सद्यो गच्छति, तथैव शोभना विद्वांसो योगिनो जितेन्द्रिया भूत्वा संयमेन स्वेष्टं परमात्मानं प्राप्यानन्दं विस्तारयन्ति॥६८॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
ये सुविद्वांसो यन्तो न स्वरपेक्षन्तेरोदसी आरोहन्ति, द्यां विश्वतोधारं यज्ञं वितेनिरे, तेऽक्षयं सुखं लभन्ते॥६८॥