Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 65

99 Mantra
17/65
Devata- अग्निर्देवता Rishi- विधृतिर्ऋषिः Chhand- निचृदार्ष्यनुस्टुप् Swara- गान्धारः
Mantra with Swara
क्रम॑ध्वम॒ग्निना॒ नाक॒मुख्य॒ꣳ हस्ते॑षु॒ बिभ्र॑तः। दि॒वस्पृ॒ष्ठ स्व॑र्ग॒त्वा मि॒श्रा दे॒वेभि॑राध्वम्॥६५॥

क्रमध्वम्। अ॒ग्निना॑। नाक॑म्। उख्य॑म्। हस्ते॑षु। बिभ्र॑तः। दि॒वः। पृ॒ष्ठम्। स्वः॑। ग॒त्वा। मि॒श्राः। दे॒वेभिः॑। आ॒ध्व॒म् ॥६५ ॥

Mantra without Swara
क्रमध्वमग्निना नाकमुख्यँ हस्तेषु बिभ्रतः । दिवस्पृष्ठँ स्वर्गत्वा मिश्रा देवेभिराध्वम् ॥

क्रमध्वम्। अग्निना। नाकम्। उख्यम्। हस्तेषु। बिभ्रतः। दिवः। पृष्ठम्। स्वः। गत्वा। मिश्राः। देवेभिः। आध्वम्॥६५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(क्रमध्वम्) पराक्रमं कुरुत (अग्निना) विद्युता (नाकम्) अविद्यमानदुःखम् (उख्यम्) उखायां संस्कृतं भक्ष्यमोदनादिकम्। अत्र शूलोखाद्यत्॥ (अष्टा॰४.२.१६) अनेन संस्कृतं भक्षा इत्यर्थे यत् (हस्तेषु) (बिभ्रतः) धरन्तः (दिवः) न्यायविनयादिप्रकाशजातस्य (पृष्ठम्) ज्ञीप्सितम् (स्वः) सुखम् (गत्वा) प्राप्य (मिश्राः) मिलिताः (देवेभिः) विद्वद्भिः (आध्वम्) उपविशत॥६५॥
Essence
राजपुरुषा विद्वद्भिः सह संप्रयोगेणाग्नेयास्त्रादिना शत्रुषु पराक्रमन्तां स्थिरं सुखं प्राप्य पुनः पुनः प्रयतेरन्॥६५॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे वीराः! यूयमग्निना नाकमुख्यं च हस्तेषु बिभ्रतो धरन्तः क्रमध्वम्, देवेभिर्मिश्राः सन्तो दिवस्पृष्ठं स्वर्गत्वाध्वम्॥६५॥