Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 64

99 Mantra
17/64
Devata- इन्द्राग्नी देवते Rishi- विधृतिर्ऋषिः Chhand- आर्ष्युनुष्टुप् Swara- गान्धारः
Mantra with Swara
उ॒द्ग्रा॒भं च॑ निग्रा॒भं च॒ ब्रह्म॑ दे॒वाऽअ॑वीवृधन्। अधा॑ स॒पत्ना॑निन्द्रा॒ग्नी मे॑ विषू॒चीना॒न् व्यस्यताम्॥६४॥

उ॒द्ग्रा॒भमित्यु॑त्ऽग्रा॒भम्। च॒। नि॒ग्रा॒भमिति॑ निऽग्रा॒भम्। च॒। ब्रह्म॑। दे॒वाः। अ॒वी॒वृ॒ध॒न्। अध॑। स॒पत्ना॒निति॑ स॒ऽपत्ना॑न्। इ॒न्द्रा॒ग्नीऽइती॑न्द्रा॒ग्नी। मे॒। वि॒षू॒चीना॑न्। वि। अ॒स्य॒ता॒म् ॥६४ ॥

Mantra without Swara
उद्ग्राभञ्च निग्राभञ्च ब्रह्म देवा अवीवृधन् । अधा सपत्नानिन्द्राग्नी मे विषूचीनान्व्यस्यताम् ॥

उद्ग्राभमित्युत्ऽग्राभम्। च। निग्राभमिति निऽग्राभम्। च। ब्रह्म। देवाः। अवीवृधन्। अध। सपत्नानिति सऽपत्नान्। इन्द्राग्नीऽइतीन्द्राग्नी। मे। विषूचीनान्। वि। अस्यताम्॥६४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(उद्ग्राभम्) उत्कृष्टतया ग्रहणम् (च) (निग्राभम्) निग्रहम् (च) (ब्रह्म) धनम् (देवाः) विद्वांसः (अवीवृधन्) वर्धयन्तु (अध) अथ। अत्र निपातस्य च [अष्टा॰६.३.१३६] इति दीर्घः (सपत्नान्) अरीन् (इन्द्राग्नी) विद्युत्पावकाविव सेनापती (मे) मम (विषूचीनान्) विरुद्धमाचरतः (वि) (अस्यताम्)॥६४॥
Essence
ये मनुष्याः सज्जनान् सत्कृत्य दुष्टान् निहत्य ब्रह्म वर्द्धयित्वा निष्कण्टकं राज्यं संपादयन्ति, त एव प्रशंसिताः। यो राजा राष्ट्रवासिनः सज्जनान् सत्कृत्य दुष्टान् निरस्यैश्वर्यं वर्धयति, तस्यैव सभासेनापती शत्रुनाशं कर्त्तुं शक्नुयाताम्॥६४॥
Subject
पुनरग्रे राजधर्म उपदिश्यते॥
Anvaya
देवा उद्ग्राभं च निग्राभं च कृत्वा ब्रह्मावीवृधन्, अधाथ सेनापती इन्द्राग्नी इव मे विषूचीनान् सपत्नान् व्यस्यतामुत्क्षिपताम्॥६४॥