Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 62

99 Mantra
17/62
Devata- यज्ञो देवता Rishi- विधृतिर्ऋषिः Chhand- निचृदार्ष्यनुस्टुप् Swara- गान्धारः
Mantra with Swara
दे॒व॒हूर्य॒ज्ञऽआ च॑ वक्षत् सुम्न॒हूर्य॒ज्ञऽआ च॑ वक्षत्। यक्ष॑द॒ग्निर्दे॒वो दे॒वाँ२ऽआ च॑ वक्षत्॥६२॥

दे॒व॒हूरिति॑ देव॒ऽहूः। य॒ज्ञः। आ। च॒। व॒क्ष॒त्। सु॒म्न॒हूरिति॑ सुम्न॒ऽहूः। य॒ज्ञः। आ। च॒। व॒क्ष॒त्। यक्ष॑त्। अ॒ग्निः। दे॒वः। दे॒वान्। आ। च॒। व॒क्ष॒त् ॥६२ ॥

Mantra without Swara
देवहूर्यज्ञऽआ च वक्षत्सुम्नहूर्यज्ञ आ च वक्षत् । यक्षदग्निर्देवो देवाँऽआ च वक्षत् ॥

देवहूरिति देवऽहूः। यज्ञः। आ। च। वक्षत्। सुम्नहूरिति सुम्नऽहूः। यज्ञः। आ। च। वक्षत्। यक्षत्। अग्निः। देवः। देवान्। आ। च। वक्षत्॥६२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(देवहूः) देवान् विदुष आह्वयति सः (यज्ञः) पूजनीयः (आ) (च) (वक्षत्) प्रापयेत् (सुम्नहूः) यः सुम्नानि सुखान्याह्वयति सः (यज्ञः) संगन्तव्यः (आ) (च) (वक्षत्) (यक्षत्) यजेत् दद्यात् (अग्निः) स्वयंप्रकाशः (देवः) सकलसुखदातेश्वरः (देवान्) दिव्यान् गुणान् भोगान् वा (आ) (च) (वक्षत्) प्रापयेत्॥६२॥
Essence
य आप्तैर्विद्वद्भिरुपास्यते, यश्च सुखस्वरूपो मङ्गलप्रदः परमेश्वरोऽस्ति, तं समाधियोगेन मनुष्या उपासीरन्॥६२॥
Subject
पुनरीश्वरः कीदृशोऽस्तीत्याह॥
Anvaya
हे मनुष्याः! यो देवहूर्यज्ञ ईश्वरोऽस्मान् सत्यमावक्षत्, चादसत्यादुद्धरेत्। यः सुम्नहूर्यज्ञोऽस्मभ्यं सुखान्यावक्षत्, दुःखानि च नाशयेत्। योऽग्निर्देवोऽस्मान् देवान् यक्षदावक्षच्च तं भवन्तः सततं सेवन्ताम्॥६२॥