Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 60

99 Mantra
17/60
Devata- आदित्यो देवता Rishi- अप्रतिरथ ऋषिः Chhand- निचृदार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
उ॒क्षा स॑मु॒द्रोऽअ॑रु॒णः सु॑प॒र्णः पूर्व॑स्य॒ योनिं॑ पि॒तुरावि॑वेश। मध्ये॑ दि॒वो निहि॑तः॒ पृश्नि॒रश्मा॒ वि च॑क्रमे॒ रज॑सस्पा॒त्यन्तौ॑॥६०॥

उ॒क्षा। स॒मु॒द्रः। अ॒रु॒णः। सु॒प॒र्ण इति॑ सुऽप॒र्णः। पूर्व॑स्य। योनि॑म्। पि॒तुः। आ। वि॒वे॒श॒। मध्ये॑। दि॒वः। निहि॑त॒ इति॒ निऽहि॑तः। पृश्निः॑। अश्मा॑। वि। च॒क्र॒मे॒। रज॑सः। पा॒ति॒। अन्तौ॑ ॥६० ॥

Mantra without Swara
उक्षा समुद्रोऽअरुणः सुपर्णः पूर्वस्य योनिम्पितुराविवेश । मध्ये दिवो निहितः पृश्निरश्मा विचक्रमे रजसस्पात्यन्तौ ॥

उक्षा। समुद्रः। अरुणः। सुपर्ण इति सुऽपर्णः। पूर्वस्य। योनिम्। पितुः। आ। विवेश। मध्ये। दिवः। निहित इति निऽहितः। पृश्निः। अश्मा। वि। चक्रमे। रजसः। पाति। अन्तौ॥६०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(उक्षा) वृष्ट्या सेचकः (समुद्रः) सम्यग् द्रवन्त्यापो यस्मात् सः (अरुणः) आरक्तः (सुपर्णः) शोभनानि पर्णानि पालनानि यस्मात् (पूर्वस्य) पूर्णस्य (योनिम्) कारणम् (पितुः) उत्पादिकाया विद्युतः (आ) (विवेश) प्रविशति (मध्ये) (दिवः) प्रकाशमयस्य (निहितः) ईश्वरेण स्थापितः (पृश्निः) विचित्रवर्णः सूर्य्यः (अश्मा) अश्नुते व्याप्नोति स मेघः। अश्मेति मेघनामसु पठितम्॥ (निघं॰१.१०) (वि) (चक्रमे) विविधतया क्रमते (रजसः) लोकान् (पाति) रक्षति (अन्तौ) बन्धने॥६०॥
Essence
मनुष्यैरीश्वरस्यानेके धन्यवादा वाच्याः, कुतो येन स्वविज्ञापनाय जगत्पालननिमित्तः सूर्यादिदृष्टान्तः प्रदर्शितः, स कथं न सर्वशक्तिमान् भवेत्॥६०॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! य ईश्वरेण दिवो मध्ये निहित उक्षा समुद्रोऽरुणः सुपर्णः पुश्निरश्मा मेघश्च रजसोऽन्तौ विचक्रमे पाति च पूर्वस्य पितुर्योनिमाविवेश, स सम्यगुपयोक्तव्यः॥६०॥