Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 59

99 Mantra
17/59
Devata- आदित्यो देवता Rishi- विश्वावसुर्ऋषिः Chhand- आर्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
वि॒मान॑ऽए॒ष दि॒वो मध्य॑ऽआस्तऽआपप्रि॒वान् रोद॑सीऽअ॒न्तरि॑क्षम्। स वि॒श्वाची॑र॒भिच॑ष्टे घृ॒तीची॑रन्त॒रा पूर्व॒मप॑रं च के॒तुम्॥५९॥

वि॒मान॒ इति॑ वि॒ऽमानः॑। ए॒षः। दि॒वः। मध्ये॑। आ॒स्ते॒। आ॒प॒प्रि॒वानित्या॑ऽपप्रि॒वान्। रोद॑सी॒ इति॒ रोद॑सी। अ॒न्तरि॑क्षम्। सः। वि॒श्वाचीः॑। अ॒भि। च॒ष्टे॒। घृ॒ताचीः॑। अ॒न्त॒रा। पूर्व॑म्। अप॑रम्। च॒। के॒तुम् ॥५९ ॥

Mantra without Swara
विमानऽएष दिवो मध्यऽआस्तऽआपप्रिवान्रोदसीऽअन्तरिक्षम् । स विश्वाचीरभि चष्टे घृताचीरन्तरा पूर्वमपरं च केतुम् ॥

विमान इति विऽमानः। एषः। दिवः। मध्ये। आस्ते। आपप्रिवानित्याऽपप्रिवान्। रोदसी इति रोदसी। अन्तरिक्षम्। सः। विश्वाचीः। अभि। चष्टे। घृताचीः। अन्तरा। पूर्वम्। अपरम्। च। केतुम्॥५९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(विमानः) विमानमिव स्थितः (एषः) सूर्यः (दिवः) प्रकाशस्य (मध्ये) (आस्ते) तिष्ठति (आपप्रिवान्) स्वतेजसा व्याप्तवान् (रोदसी) प्रकाशभूमी (अन्तरिक्षम्) अवकाशम् (सः) (विश्वाचीः) या विश्वमञ्चन्ति प्राप्नुवन्ति ता द्युतीः (अभि) (चष्टे) पश्यति। चष्ट इति पश्यतिकर्मा॥ (निघं॰३.११) (घृताचीः) या घृतमुदकमञ्चन्तिः ताः (अन्तरा) द्वयोर्मध्ये (पूर्वम्) (अपरम्) (च) (केतुम्) प्रज्ञापकं तेजः॥५९॥
Essence
यः सूर्यलोको ब्रह्माण्डमध्ये स्थितः सन् स्वप्रकाशेन सर्वमभिव्याप्नोति, स सर्वाभिकर्षको वर्त्तत इति मनुष्यैर्वेद्यम्॥५९॥
Subject
अथेश्वरेण किमर्थः सूर्यो निर्मित इत्युपदिश्यते॥
Anvaya
विद्वान् य एष दिवो मध्ये विमानो रोदसी अन्तरिक्षमापप्रिवान् सन्नास्ते, स विश्वाचीर्घृताचीर्द्युती- र्विस्तारयति, पूर्वमपरमन्तरा च केतुमभिचष्टे, तं विजानीयात्॥५९॥