Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 58

99 Mantra
17/58
Devata- अग्निर्देवता Rishi- अप्रतिरथ ऋषिः Chhand- आर्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
सूर्य॑रश्मि॒र्हरि॑केशः पु॒रस्ता॑त् सवि॒ता ज्योति॒रुद॑याँ॒२ऽअज॑स्रम्। तस्य॑ पू॒षा प्र॑स॒वे या॑ति वि॒द्वान्त्स॒म्पश्य॒न् विश्वा॒ भुव॑नानि गो॒पाः॥५८॥

सूर्य॑रश्शि॒मरिति॒ सूर्य्य॑ऽरश्मिः। हरि॑केश॒ इति॒ हरि॑ऽकेशः। पु॒रस्ता॑त्। स॒वि॒ता। ज्योतिः॑। उत्। अ॒या॒न्। अज॑स्रम्। तस्य॑। पू॒षा। प्र॒स॒व इति॑ प्रऽस॒वे। या॒ति॒। वि॒द्वान्। सं॒पश्य॒न्निति॑ स॒म्ऽपश्य॑न्। विश्वा॑। भुव॑नानि। गो॒पाः ॥५८ ॥

Mantra without Swara
सूर्यरश्मिर्हरिकेशः पुरस्तात्सविता ज्योतिरुदयाँऽअजस्रम् । तस्य पूषा प्रसवे याति विद्वान्त्सम्पश्यन्विश्वा भुवनानि गोपाः ॥

सूर्यरश्शिमरिति सूर्य्यऽरश्मिः। हरिकेश इति हरिऽकेशः। पुरस्तात्। सविता। ज्योतिः। उत्। अयान्। अजस्रम्। तस्य। पूषा। प्रसव इति प्रऽसवे। याति। विद्वान्। संपश्यन्निति सम्ऽपश्यन्। विश्वा। भुवनानि। गोपाः॥५८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(सूर्यरश्मिः) (हरिकेशः) हरितवर्णः (पुरस्तात्) प्रथमतः (सविता) सूर्यलोकः (ज्योतिः) द्युतिम् (उत्) (अयान्) (अजस्रम्) निरन्तरम् (तस्य) (पूषा) पुष्टिकर्त्ता (प्रसवे) प्रसूते जगति (याति) प्राप्नोति (विद्वान्) विद्यायुक्तः (संपश्यन्) सम्यक् प्रेक्षमाणः (विश्वा) सर्वान् (भुवनानि) लोकान् (गोपाः) पृथिव्यादयो जगद्ररक्षकाः॥५८॥
Essence
योऽयं सूर्यलोकस्तत्प्रकाशे शुक्लहरितादयोऽनेके किरणाः सन्ति, ये सर्वाँल्लोकानभिरक्षन्ति। अत एव सर्वस्व रक्षणं भवतीति वेद्यम्॥५८॥
Subject
अथ सूर्य्यलोकस्वरूपमाह॥
Anvaya
हे मनुष्याः! यः पुरस्तात् सविता ज्योतिः प्रयच्छति, यस्मिन् हरिकेशः सूर्यरश्मिर्वर्तते, यः प्रसवेऽजस्रं पूषाऽस्ति, यं विद्वान् संपश्यन् सन् तद्विद्यां याति, तस्य सकाशाद् गोपा विश्वा भुवनान्युदयान्, स सूर्यमण्डलोऽतिप्रकाशमय इति यूयं वित्त॥५८॥