Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 57

99 Mantra
17/57
Devata- यज्ञो देवता Rishi- अप्रतिरथ ऋषिः Chhand- निचृदार्षी बृहती Swara- मध्यमः
Mantra with Swara
वी॒तꣳ ह॒विः श॑मि॒तꣳ श॑मि॒ता य॒जध्यै॑ तु॒रीयो॑ य॒ज्ञो यत्र॑ ह॒व्यमेति॑। ततो॑ वा॒काऽआ॒शिषो॑ नो जुषन्ताम्॥५७॥

वी॒तम्। ह॒विः। श॒मि॒तम्। श॒मि॒ता। य॒जध्यै॑। तु॒रीयः॑। य॒ज्ञः। यत्र॑। ह॒व्यम्। एति॑। ततः॑। वा॒काः। आ॒शिष॒ इत्या॒ऽऽशिषः॑। नः॒। जु॒ष॒न्ता॒म् ॥५७ ॥

Mantra without Swara
वीतँ हविः शमितँ शमिता यजध्यै तुरीयो यज्ञो यत्र हव्यमेति । ततो वाका आशिषो नो जुषन्ताम् ॥

वीतम्। हविः। शमितम्। शमिता। यजध्यै। तुरीयः। यज्ञः। यत्र। हव्यम्। एति। ततः। वाकाः। आशिष इत्याऽऽशिषः। नः। जुषन्ताम्॥५७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(वीतम्) गमनशीलम् (हविः) होतव्यम् (शमितम्) उपशान्तम् (शमिता) उपशमादिगुणयुक्ता (यजध्यै) यष्टुम् (तुरीयः) चतुर्थः (यज्ञः) संगन्तव्यः (यत्र) (हव्यम्) (एति) गच्छति (ततः) तस्मात् (वाकाः) उच्यन्ते यास्ताः (आशिषः) इच्छासिद्धयः (नः) अस्मान् (जुषन्ताम्) सेवन्ताम्॥५७॥
Essence
अग्निहोत्रादौ चत्वारः पदार्थाः सन्ति पुष्कलं पुष्टिसुगन्धिमिष्टगुणयुक्तं रोगनाशकं हविः, तच्छोधनं, यज्ञकर्त्ता, वेद्यग्न्यादिकं चेति। यथावद्धुतः पदार्थ आकाशं गत्वा पुनरावृत्येष्टसाधको भवतीति मनुष्यैर्मन्तव्यम्॥५७॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! यः शमिता यजध्यै वीतं शमितं हविरग्नौ प्रक्षिपति, यस्तुरीयो यज्ञोऽस्ति, यत्र हव्यमेति, ततो वाका आशिषश्च नो जुषन्तामितीच्छत॥५७॥