Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 56

99 Mantra
17/56
Devata- अग्निर्देवता Rishi- अप्रतिरथ ऋषिः Chhand- विराडार्षी पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
दैव्या॑य ध॒र्त्रे जोष्ट्रे॑ देव॒श्रीः श्रीम॑नाः श॒तप॑याः। प॒रि॒गृह्य॑ दे॒वा य॒ज्ञमा॑यन् दे॒वा दे॒वेभ्यो॑ऽअध्व॒र्यन्तो॑ऽअस्थुः॥५६॥

दैव्या॑य। ध॒र्त्रे। जोष्ट्रे॑। दे॒व॒श्रीरिति॑ देव॒ऽश्रीः। श्रीम॑ना॒ इति॒ श्रीऽम॑नाः। श॒तप॑या॒ इति॑ श॒तऽप॑याः। प॒रि॒गृह्येति॑ परि॒ऽगृह्य॑। दे॒वाः। य॒ज्ञम्। आ॒य॒न्। दे॒वाः। दे॒वेभ्यः॑। अ॒ध्व॒र्यन्तः॑। अ॒स्थुः॒ ॥५६ ॥

Mantra without Swara
दैव्याय धर्त्रे जोष्ट्रे देवश्रीः श्रीमनाः शतपयाः । परिगृह्य देवा यज्ञमायन्देवा देवेभ्योऽअध्वर्यन्तो अस्थुः ॥

दैव्याय। धर्त्रे। जोष्ट्रे। देवश्रीरिति देवऽश्रीः। श्रीमना इति श्रीऽमनाः। शतपया इति शतऽपयाः। परिगृह्येति परिऽगृह्य। देवाः। यज्ञम्। आयन्। देवाः। देवेभ्यः। अध्वर्यन्तः। अस्थुः॥५६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(दैव्याय) दिव्येषु गुणेषु भवाय (धर्त्रे) धारणशीलाय (जोष्ट्रे) जुषमाणाय (देवश्रीः) श्रीयते या सा श्रीर्देवेषु विद्यते यस्य सः (श्रीमनाः) श्रियि मनो यस्य सः (शतपयाः) शतानि पयांसि दुग्धादीनि वस्तूनि यस्य सः (परिगृह्य) (देवाः) कामयमानाः (यज्ञम्) संगन्तव्यं गृहाश्रममग्निहोत्रादिकं वा (आयन्) प्राप्नुवन्तु (देवाः) विद्यादातारः (देवेभ्यः) विद्वद्भ्यः (अध्वर्यन्तः) आत्मनोऽध्वरमिच्छन्तः (अस्थुः) तिष्ठेयुः॥५६॥
Essence
मनुष्यैः श्रीप्राप्तय उद्योगः सदैव कर्त्तव्यो यथा विद्वांसो धनलब्धये प्रयतेरंस्तद्वदनु- प्रयतितव्यम्॥५६॥
Subject
अथ यज्ञः कथं कर्त्तव्य इत्याह॥
Anvaya
हे मनुष्याः! यथाऽध्वर्यन्तो देवा विद्वांसो देवेभ्यो यज्ञेऽस्थुः, यथा दैव्याय धर्त्रे जोष्ट्रे होत्रे देवश्रीः श्रीमनाः शतपया यजमानो वर्त्तते, तथा देवा यूयं विद्याः परिगृह्य यजमायन्॥५६॥