Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 55

99 Mantra
17/55
Devata- अग्निर्देवता Rishi- अप्रतिरथ ऋषिः Chhand- भुरिगार्षी पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
समि॑द्धेऽअ॒ग्नावधि॑ मामहा॒नऽउ॒क्थप॑त्र॒ऽईड्यो॑ गृभी॒तः। त॒प्तं घ॒र्म्मं प॑रि॒गृह्या॑यजन्तो॒र्जा यद्य॒ज्ञमय॑जन्त दे॒वाः॥५५॥

समि॑द्ध॒ इति॒ सम्ऽइ॑द्धे। अ॒ग्नौ। अधि॑। मा॒म॒हा॒नः। म॒म॒हा॒न इति॑ ममहा॒नः। उ॒क्थप॑त्र॒ इत्यु॒क्थऽप॑त्रः। ईड्यः॑। गृ॒भी॒तः। त॒प्तम्। घ॒र्म्मम्। प॒रि॒गृह्येति॑ परि॒ऽगृह्य॑। अ॒य॒ज॒न्त॒। ऊ॒र्जा। यत्। य॒ज्ञम्। अय॑जन्त। दे॒वाः ॥५५ ॥

Mantra without Swara
समिद्धेऽअग्नावधि मामहानऽउक्थपत्रऽईड्यो गृभीतः । तप्तङ्घर्मम्परिगृह्यायजन्तोर्जा यद्यज्ञमयजन्त देवाः ॥

समिद्ध इति सम्ऽइद्धे। अग्नौ। अधि। मामहानः। ममहान इति ममहानः। उक्थपत्र इत्युक्थऽपत्रः। ईड्यः। गृभीतः। तप्तम्। घर्म्मम्। परिगृह्येति परिऽगृह्य। अयजन्त। ऊर्जा। यत्। यज्ञम्। अयजन्त। देवाः॥५५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(समिद्धे) सम्यक् प्रदीप्ते (अग्नौ) पावके (अधि) (मामहानः) अतिशयेन महान् पूजनीयः (उक्थपत्रः) उक्थानि वक्तुं योग्यानि वेदस्तोत्राणि पत्राणि विद्यागमकानि यस्य सः (ईड्यः) ईडितुं स्तोतुमध्येषितुं योग्यः (गृभीतः) गृहीतः (तप्तम्) तापान्वितम् (घर्मम्) अग्निहोत्रादिकं यज्ञम्। घर्म इति यज्ञनामसु पठितम्॥ (निघं॰३.१७) (परिगृह्य) सर्वतो गृहीत्वा (अयजन्त) यजन्तु (ऊर्जा) बलेन (यत्) यम् (यज्ञम्) अग्निहोत्रादिकम् (अयजन्त) यजन्ते (देवाः) विद्वांसः॥५५॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैर्जगदुपकाराय यथा विद्वांसोऽग्निहोत्रादिकं यज्ञमनुतिष्ठन्ति, तथाऽयमनुष्ठातव्यः॥५५॥
Subject
यज्ञः कथं कर्त्तव्य इत्युपदिश्यते॥
Anvaya
हे मनुष्याः! यूयं यथा देवा समिद्धेऽग्नौ यद्यं यज्ञमयजन्त, तथा योऽधि मामहान उक्थपत्र ईड्यो गृभीतोऽस्ति, तं तप्तं घर्ममूर्जा परिगृह्यायजन्त॥५५॥