Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 53

99 Mantra
17/53
Devata- अग्निर्देवता Rishi- अप्रतिरथ ऋषिः Chhand- विराडार्ष्यनुष्टुप् Swara- गान्धारः
Mantra with Swara
उदु॑ त्वा॒ विश्वे॑ दे॒वाऽअग्ने॒ भर॑न्तु॒ चित्ति॑भिः। स नो॑ भव शि॒वस्त्वꣳ सु॒प्रती॑को वि॒भाव॑सुः॥५३॥

उत्। ऊँ॒ऽइत्यूँ॑। त्वा॒। विश्वे॑। दे॒वाः। अग्ने॑। भर॑न्तु॒। चित्ति॑भि॒रिति॒ चित्ति॑ऽभिः। सः। नः॒। भ॒व॒। शि॒वः। त्वम्। सु॒प्रती॑क॒ इति॑ सु॒ऽप्रती॑कः। वि॒भाव॑सु॒रिति॑ वि॒भाऽव॑सुः ॥५३ ॥

Mantra without Swara
उदु त्वा विश्वे देवा अग्ने भरन्तु चित्तिभिः । स नो बह्व शिवस्त्वँ सुप्रतीको विभावसुः ॥

उत्। ऊँऽइत्यूँ। त्वा। विश्वे। देवाः। अग्ने। भरन्तु। चित्तिभिरिति चित्तिऽभिः। सः। नः। भव। शिवः। त्वम्। सुप्रतीक इति सुऽप्रतीकः। विभावसुरिति विभाऽवसुः॥५३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(उत्) (उ) (त्वा) त्वाम् (विश्वे) सर्वे (देवाः) विद्वांसः (अग्ने) विद्वन् (भरन्तु) धरन्तु (चित्तिभिः) संज्ञानैः (सः) (नः) अस्मभ्यम् (भव) (शिवः) मङ्गलकारी (त्वम्) (सुप्रतीकः) सुष्ठु प्रतीकं प्रतीतिकरं ज्ञानं यस्य सः (विभावसुः) यो विविधासु भासु विद्याप्रकाशेषु वसुः वसति सः॥५३॥
Essence
ये येभ्यो विद्यां दद्युस्ते तेषां सेवकाः स्युः॥५३॥
Subject
अथ सभापतिविषयमाह॥
Anvaya
हे अग्ने! सभेश यं त्वा विश्वे देवाश्चित्तिभिरुद्भरन्तु, स उ त्वं नः शिवः सुप्रतीको विभावसुर्भव॥५३॥