Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 52

99 Mantra
17/52
Devata- अग्निर्देवता Rishi- अप्रतिरथ ऋषिः Chhand- निचृदार्ष्यनुस्टुप् Swara- गान्धारः
Mantra with Swara
यस्य॑ कु॒र्मो गृ॒हे ह॒विस्तम॑ग्ने वर्द्धया॒ त्वम्। तस्मै॑ दे॒वाऽअधि॑ब्रुवन्न॒यं च॒ ब्रह्म॑ण॒स्पतिः॑॥५२॥

यस्य॑। कु॒र्मः। गृ॒हे। ह॒विः। तम्। अ॒ग्ने॒। व॒र्द्ध॒य॒। त्वम्। तस्मै॑। दे॒वाः। अधि॑। ब्रु॒व॒न्। अ॒यम्। च॒। ब्रह्म॑णः। पतिः॑ ॥५२ ॥

Mantra without Swara
यसय कुर्मा गृहे हविस्तमग्ने वर्धया त्वम् । तस्मै देवा अधि ब्रवन्नयञ्च ब्रह्मणस्पतिः ॥

यस्य। कुर्मः। गृहे। हविः। तम्। अग्ने। वर्द्धय। त्वम्। तस्मै। देवाः। अधि। ब्रुवन्। अयम्। च। ब्रह्मणः। पतिः॥५२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(यस्य) राज्ञः (कुर्मः) सम्पादयामः (गृहे) (हविः) होमम् (तम्) (अग्ने) विद्वन् पुरोहित (वर्द्धय) अत्र अन्येषामपि॰ [अष्टा॰६.३.१३७] इति दीर्घः (त्वम्) (तस्मै) तं यजमानम्। अत्र व्यत्ययेन चतुर्थी (देवाः) दिव्यगुणा ऋत्विजः (अधि) (ब्रुवन्) अधिकं ब्रुवन्तु। लेट्प्रयोगोऽयम्। (अयम्) (च) (ब्रह्मणः) वेदस्य (पतिः) पालको यजमानः॥५२॥
Essence
पुरोहितस्य तत् कर्मास्ति यतो यजमानस्योन्नतिस्स्याद्, यो यस्य यादृशं यावच्च कर्म कुर्यात्, तस्मै तादृशं तावदेव मासिकं वेतनं देयम्। सर्वे विद्वांसः सर्वान् प्रति सत्युमपदिशेयू राजा च॥५२॥
Subject
अथ पुरोहितर्त्विग्यजमानकृत्यमाह॥
Anvaya
हे अग्ने! वयं यस्य गृहे हविष्कुर्मस्तं त्वं वर्धय, देवास्तस्मा अधि ब्रुवन्। अयं ब्रह्मणस्पतिश्च तानधिब्रवीतु॥५२॥