Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 51

99 Mantra
17/51
Devata- इन्द्रो देवता Rishi- अप्रतिरथ ऋषिः Chhand- आर्ष्यनुष्टुप् Swara- गान्धारः
Mantra with Swara
इन्द्रे॒मं प्र॑त॒रां न॑य सजा॒ताना॑मसद्व॒शी। समे॑नं॒ वर्चसा सृज दे॒वानां॑ भाग॒दाऽअ॑सत्॥५१॥

इन्द्रः॑। इ॒मम्। प्र॒त॒रामिति॑ प्रऽत॒राम्। न॒य॒। स॒जा॒ताना॒मिति॑ सऽजा॒ताना॑म्। अ॒स॒त्। व॒शी। सम्। ए॒न॒म्। वर्च॑सा। सृ॒ज॒। दे॒वाना॑म्। भा॒ग॒दा इति॑ भाग॒ऽदाः। अ॒स॒त् ॥५१ ॥

Mantra without Swara
इन्द्रेमम्प्रतरान्नय सजातानामसद्वशी । समेनँवर्चसा सृज देवानाम्भागदाऽअसत् ॥

इन्द्रः। इमम्। प्रतरामिति प्रऽतराम्। नय। सजातानामिति सऽजातानाम्। असत्। वशी। सम्। एनम्। वर्चसा। सृज। देवानाम्। भागदा इति भागऽदाः। असत्॥५१॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(इन्द्र) सुखानां धारक (इमम्) विजयमानम् (प्रतराम्) प्रतरन्त्युल्लङ्घयन्ति शत्रुबलानि यया नीत्या ताम् (नय) प्रापय (सजातानाम्) समानजन्मनाम् (असत्) भवेत् (वशी) जितेन्द्रियः (सम्) सम्यक् (एनम्) (वर्चसा) विद्याप्रकाशेन (सृज) युङ्ग्धि (देवानाम्) विदुषां योद्धॄणां मध्ये (भागदाः) अंशप्रदः (असत्)॥५१॥
Essence
युद्धे भृत्याः शत्रूणां यान् पदार्थान् प्राप्नुयुः, तान् सर्वान् सभापती राजा न स्वीकुर्यात्। किन्तु तेषां मध्याद् यथायोग्यं सत्काराय योद्धृभ्यो षोडशांशं प्रदद्याद्, यावतः पदार्थान् भृत्याः प्राप्नुयुस्तावतां षोडशांशं राज्ञे प्रदद्युः। यदि सर्वे सभेशादयो जितेन्द्रियाः स्युस्तर्ह्येतेषां कदापि पराजयो न स्यात्, यदि सभेशः स्वहितं चिकीर्षेत् तर्हि योद्धॄणामंशं स्वयं न स्वीकुर्यात्॥५१॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे इन्द्रः! त्वं सजातानां देवानामिमं प्रतरां नय यतोऽयं वश्यसत्। एनं वर्चसा संसृज यतोऽयं भागदा असत्॥५१॥