Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 49

99 Mantra
17/49
Devata- सोमवरुणादेवा देवताः Rishi- अप्रतिरथ ऋषिः Chhand- आर्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
मर्मा॑णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॒नानु॑ वस्ताम्। उ॒रोर्वरी॑यो॒ वरु॑णस्ते कृणोतु॒ जय॑न्तं॒ त्वानु॑ दे॒वा म॑दन्तु॥४९॥

मर्मा॑णि। ते॒। वर्म॑णा। छा॒द॒या॒मि॒। सोमः॑। त्वा॒। राजा॑। अ॒मृते॑न। अनु॑। व॒स्ता॒म्। उ॒रोः। वरी॑यः। वरु॑णः। ते॒। कृ॒णो॒तु॒। जय॑न्तम्। त्वा॒। अनु॑। दे॒वाः। म॒द॒न्तु॒ ॥४९ ॥

Mantra without Swara
मर्माणि ते वर्मणा छादयामि सोमस्त्वा राजामृतेनानु वस्ताम् । उरोर्वरीयो वरुणस्ते कृणोतु जयन्तन्त्वानु देवा मदन्तु ॥

मर्माणि। ते। वर्मणा। छादयामि। सोमः। त्वा। राजा। अमृतेन। अनु। वस्ताम्। उरोः। वरीयः। वरुणः। ते। कृणोतु। जयन्तम्। त्वा। अनु। देवाः। मदन्तु॥४९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(मर्माणि) यानि ताडितानि सन्ति सद्यो मरणजनकान्यङ्गानि (ते) तव (वर्मणा) देहरक्षकेन (छादयामि) अपवृणोमि (सोमः) सोम्यगुणैश्वर्यसम्पन्नः (त्वा) त्वाम् (राजा) विद्यान्यायविनयादिभिः प्रकाशमानः (अमृतेन) सर्वरोगनिवारकेणामृतात्मकेनौषधेन (अनु) पश्चात् (वस्ताम्) आच्छादयताम् (उरोः) बहुगुणैश्वर्यात् (वरीयः) अतिशयितं बह्वैश्वर्यम् (वरुणः) सर्वत उत्कृष्टः (ते) तुभ्यम् (कृणोतु) (जयन्तम्) दुष्टान् पराजयन्तम् (त्वा) त्वाम् (अनु) (देवाः) विद्वांसः (मदन्तु) उत्साहयन्तु॥४९॥
Essence
सेनापत्यादिभिः सर्वेषां योद्धॄणां शरीरादिरक्षणं सर्वतः कृत्वैते सततं प्रोत्साहनीया अनुमोदनीयाश्च, यतो विश्वतो विजयं लभेरन्॥४९॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे योद्धः शूरवीर! अहं ते मर्माणि वर्मणा छादयामि। अयं सोमो राजाऽमृतेन त्वानुवस्ताम्। वरुणस्त उरोर्वरीयः कृणोतु, जयन्तं त्वा देवा अनु मदन्तु॥४९॥