Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 48

99 Mantra
17/48
Devata- इन्द्रबृहस्पत्यादयो देवताः Rishi- अप्रतिरथ ऋषिः Chhand- पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
यत्र॑ बा॒णाः स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खाऽइ॑व। तन्न॒ऽइन्द्रो॒ बृह॒स्पति॒रदि॑तिः॒ शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु॥४८॥

यत्र॑। बा॒णाः। सं॒पत॒न्तीति॑ स॒म्ऽपत॑न्ति। कु॒मा॒राः। वि॒शि॒खाऽइ॒वेति॑ विशि॒खाःऽइ॑व। तत्। नः॒। इन्द्रः॑। बृह॒स्पतिः॑। अदि॑तिः। शर्म्म॑। य॒च्छ॒तु॒। वि॒श्वाहा॑। शर्म्म॑। य॒च्छ॒तु॒ ॥४८ ॥

Mantra without Swara
यत्र वाणाः सम्पतन्ति कुमारा विशिखाऽइव । तन्नऽइन्द्रो बृहस्पतिरदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥

यत्र। बाणाः। संपतन्तीति सम्ऽपतन्ति। कुमाराः। विशिखाऽइवेति विशिखाःऽइव। तत्। नः। इन्द्रः। बृहस्पतिः। अदितिः। शर्म्म। यच्छतु। विश्वाहा। शर्म्म। यच्छतु॥४८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(यत्र) यस्मिन् संग्रामे (बाणाः) ये बणन्ति शब्दायन्ते ते शस्त्रास्त्रसमूहाः (संपतन्ति) (कुमाराः) अतिचपला वेगवन्तो बालकाः (विशिखा इव) यथा विगतशिखा विविधशिखा वा (तत्) तत्र (नः) अस्मभ्यम् (इन्द्रः) सेनापतिः (बृहस्पतिः) बृहत्याः सभायाः सेनाया वा पालकः (अदितिः) अखण्डिता सभासदलङ्कृता सभा (शर्म) शरणं सुखम् (यच्छतु) (विश्वाहा) सर्वाण्यहानि दिनानि (शर्म) सुखसाधकं गृहम् (यच्छतु) ददातु॥४८॥
Essence
अत्रोपमालङ्कारः। यथा बालका इतस्ततो धावन्ति, तथा युद्धसमये योद्धारोऽपि चेष्टन्ताम्। ये युद्धे क्षताः क्षीणाः श्रान्ताः क्लान्ताश्छिन्नभिन्नाङ्गा मूर्छिताश्च भवेयुस्तान् युद्धभूमेः सद्य उत्थाप्य सुखालयं नीत्वौषधादीनि कृत्वा स्वस्थान् कुर्युः। ये च म्रियेरँस्तान् विधिवद् दहेयुः। राजजनास्तेषां मातृपितृस्त्रीबालकादीनां सदा रक्षां कुर्युः॥४८॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
यत्र संग्रामे विशिखा कुमारा इव बाणाः संपतन्ति, तद् बृहस्पतिरिन्द्रः शर्म यच्छत्वदितिश्च विश्वाहा नः शर्म यच्छतु॥४८॥