Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 46

99 Mantra
17/46
Devata- योद्वा देवता Rishi- अप्रतिरथ ऋषिः Chhand- विराडार्ष्यनुष्टुप् Swara- गान्धारः
Mantra with Swara
प्रेता॒ जय॑ता नर॒ऽइन्द्रो॑ वः॒ शर्म॑ यच्छतु। उ॒ग्रा वः॑ सन्तु बा॒हवो॑ऽनाधृ॒ष्या यथास॑थ॥४६॥

प्र। इ॒त॒। जय॑त। न॒रः॒। इन्द्रः॑। वः॒। शर्म॑। य॒च्छ॒तु॒। उ॒ग्राः। वः॒। स॒न्तु॒। बा॒हवः॑। अ॒ना॒धृ॒ष्याः। यथा॑। अस॑थ ॥४६ ॥

Mantra without Swara
प्रेता जयता नरऽइन्द्रो वः शर्म यच्छतु । उग्रा वः सन्तु बाहवो नाधृष्या यथासथ ॥

प्र। इत। जयत। नरः। इन्द्रः। वः। शर्म। यच्छतु। उग्राः। वः। सन्तु। बाहवः। अनाधृष्याः। यथा। असथ॥४६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(प्र) (इत) शत्रून् प्राप्नुत। अत्र द्व्यचोऽतस्तिङः [अष्टा॰६.३.१३५] इति दीर्घः (जयत) विजयध्वम्। अत्र अन्येषामपि दृश्यते [अष्टा॰६.३.१३७] इति दीर्घः (नरः) नायकाः (इन्द्रः) शत्रूणां दारयिता सेनापतिः (वः) युष्मभ्यम् (शर्म) गृहम् (यच्छतु) ददातु (उग्राः) दृढाः (वः) युष्माकम् (सन्तु) (बाहवः) भुजाः (अनाधृष्याः) शत्रुभिर्धर्षितुमयोग्याः (यथा) (असथ) भवत॥४६॥
Essence
अत्रोपमालङ्कारः। ये शत्रूणां विजेतारो वीरास्स्युस्तान् सेनापतिर्धनान्नगृहवस्त्रादिभिः सततं सत्कुर्यात्, सेनास्था जनाश्च यथा बलिष्ठाः स्युस्तथा व्यवहरेयुः॥४६॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे नरः! यूयं यथा शत्रूनित जयत, इन्द्रो वः शर्म प्रयच्छतु, वो बाहव उग्राः सन्तु। अनाधृष्या असथ तथा प्रयतध्वम्॥४६॥