Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 45

99 Mantra
17/45
Devata- इषुर्देवता Rishi- अप्रतिरथ ऋषिः Chhand- आर्ष्यनुष्टुप् Swara- गान्धारः
Mantra with Swara
अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑सꣳशिते। गच्छा॒मित्रा॒न् प्र प॑द्यस्व॒ मामीषां॒ कञ्च॒नोच्छि॑षः॥४५॥

अव॑सृ॒ष्टेत्यव॑ऽसृष्टा। परा॑। प॒त॒। शर॑व्ये। ब्रह्म॑सꣳशित॒ इति॒ ब्रह्म॑ऽसꣳशिते। गच्छ॑। अ॒मित्रा॑न्। प्र। प॒द्य॒स्व॒। मा। अ॒मीषा॑म्। कम्। च॒न। उत्। शि॒षः॒ ॥४५ ॥

Mantra without Swara
अवसृष्टा परा पत शरव्ये ब्रह्मसँशिते । गच्छामित्रान्प्र पद्यस्व मामीषाङ्कं चनोच्छिषः ॥

अवसृष्टेत्यवऽसृष्टा। परा। पत। शरव्ये। ब्रह्मसꣳशित इति ब्रह्मऽसꣳशिते। गच्छ। अमित्रान्। प्र। पद्यस्व। मा। अमीषाम्। कम्। चन। उत्। शिषः॥४५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अवसृष्टा) प्रेरिता (परा) (पत) याहि (शरव्ये) शरेषु बाणेषु साध्वी स्त्री तत्सम्बुद्धौ (ब्रह्मसंशिते) ब्रह्मभिश्चतुर्वेदविद्भिः प्रशंसिते शिक्षया सम्यक् तीक्ष्णीकृते (गच्छ) (अमित्रान्) शत्रून् (प्र) (पद्यस्व) प्राप्नुहि (मा) निषेधे (अमीषाम्) दूरस्थानां विरोधिनाम् (कम्) (चन) कञ्चिदपि (उत्) (शिषः) उदूर्ध्वं शिष्टं त्यजेत्॥४५॥
Essence
सभापत्यादिभिः यथा युद्धविद्यया पुरुषाः शिक्षणीयास्तथा स्त्रियश्च, यथा वीरपुरुषा युद्धं कुर्युस्तथा स्त्रियोऽपि कुर्वन्ति। ये शत्रवो युद्धे हताः स्युस्तदवशिष्टाश्च शाश्वते बन्धने कारागृहे स्थापनीयाः॥४५॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे शरव्ये ब्रह्मसंशिते सेनानीपत्नि! त्वमवसृष्टा सती परापतामित्रान् गच्छ, तेषां हनने विजयं प्रपद्यस्वामीषां शत्रूणां मध्ये कञ्चन मोच्छिषो हननेन विना कञ्चिदपि मा त्यजेः॥४५॥