Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 17 / Mantra 44

99 Mantra
17/44
Devata- इन्द्रो देवता Rishi- अप्रतिरथ ऋषिः Chhand- विराडार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अ॒मीषां॑ चि॒त्तं प्र॑तिलो॒भय॑न्ती गृहा॒णाङ्गा॑न्यप्वे॒ परे॑हि। अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै॑र॒न्धेना॒मित्रा॒स्तम॑सा सचन्ताम्॥४४॥

अ॒मीषा॑म्। चि॒त्तम्। प्र॒ति॒लो॒भय॒न्तीति॑ प्रतिऽलो॒भय॑न्ती। गृ॒हा॒ण। अङ्गा॑नि। अ॒प्वे॒। परा॑। इ॒हि॒। अ॒भि। प्र। इ॒हि॒। निः। द॒ह॒। हृ॒त्स्विति॑ हृ॒त्ऽसु। शोकैः॑। अ॒न्धेन॑। अ॒मित्राः॑। तम॑सा। स॒च॒न्ता॒म् ॥४४ ॥

Mantra without Swara
अमीषाञ्चित्तम्प्रतिलोभयन्ती गृहाणाङ्गान्यप्वे परेहि । अभि प्रेहि निर्दह हृत्सु शोकैरन्धेनामित्रास्तमसा सचन्ताम् ॥

अमीषाम्। चित्तम्। प्रतिलोभयन्तीति प्रतिऽलोभयन्ती। गृहाण। अङ्गानि। अप्वे। परा। इहि। अभि। प्र। इहि। निः। दह। हृत्स्विति हृत्ऽसु। शोकैः। अन्धेन। अमित्राः। तमसा। सचन्ताम्॥४४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अमीषाम्) परोक्षाणाम् (चित्तम्) स्वान्तम् (प्रतिलोभयन्ती) प्रत्यक्षे मोहयन्ती (गृहाण) (अङ्गानि) सेनावयवान् (अप्वे) यापवाति शत्रुप्राणान् हिनस्ति तत्सम्बुद्धौ। अपपूर्वाद्वातेः अन्येभ्योऽपि दृश्यते [अष्टा॰३.२.१७८] इति क्विप् अकारलोपश्छान्दसः (परा) (इहि) दूरं गच्छ (अभि) (प्र) (इहि) अभिप्रायं दर्शय (निर्दह) नितरां भस्मीकुरु (हृत्सु) हृदयेषु (शोकैः) (अन्धेन) आवरकेण (अमित्राः) शत्रवः (तमसा) रात्र्यन्धकारेण (सचन्ताम्) संयुञ्जन्तु॥४४॥
Essence
सभापत्यादिभिर्यथाऽतिप्रशंसिता हृष्टपुष्टा साङ्गोपाङ्गा पुरुषसेना स्वीकार्या तथा स्त्रीसेना च। यत्राव्यभिचारिण्यः स्त्रियस्तिष्ठेयुस्तया सेनया शत्रवो वशे स्थापनीयाः॥४४॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे अप्वे शूरवीरे राजस्त्रि क्षत्रिये! अमीषां चित्तं प्रतिलोभयन्ती या स्वसेनास्ति तस्या अङ्गानि त्वं गृहाण। अधर्मात् परेहि स्वसेनामभिप्रेहि शत्रून् निर्दह, यत इमेऽमित्रा हृत्सु शौकेरन्धेन तमसा सह सचन्तां संयुक्तास्तिष्ठन्तु॥४४॥